________________
शोधपत्रम् ।
आ. ३८७ पृ. ९७ टी. पं. २० सूचितम् । इत्यनन्तरम् - अनया क्षीरनीराख्यमालिंगनमपि कटाक्षितं, तल्लक्षणं च - " अंकेऽथ तल्पे पतिसंमुखस्था कान्ता समालिंगति यत्र गाढम् । मिथः प्रवेशं कुरुतो निजांगै: स्यात् क्षीरनीरं परिरंभणं तत् ॥ १ इति अनंगरंगे (९।९ ) ॥
૪૬૨
आ. ४७३ पृ. १२३ टी. पं. १ स्वतंत्र इत्यनन्तरम् - प्रिय, जीवितस्य आधारभूत वा, आधारप्रिययोर्नाथः | " इति रभसः ।
66
आ. ४७७ पृ. १२७ टी. पं. १७ क्रियते ॥ इत्यनन्तरम् - यद्वा इदानीं अशरणा गुणाः किं कुर्युरिति प्रलापः । समुदितानां तिष्ठतु, एकैकस्यापि गुणस्येदृश आश्रयो न लभ्यते " इति ( नागानन्दविमर्शिन्युक्तदिशा ) भावः ।
आ. ४७९ पृ. १३१ टी. पं. २२ अस्वामिकं इत्यनन्तरम् - अनाधारं वा । आ. ४८२ पृ. १३३ टी. पं. २ बहुवचनं, इत्यनन्तरम् - यद्वा वयमिति निर्वेदात् बहुवचनं, यथा "वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती || ” ( शाकुं० १।१९ ) इत्यत्र ।
८८
आ. ४८९ पृ. १३७ टी. पं. १७ भविष्यत् । इत्यनन्तरम् - मामा इत्यनौचित्यात् वीप्सया अत्यन्तनिषेधः ।
आ. ५६३ पृ. १६८ टी. पं. १-४ “ आलय: स्वर्गः" 'मुक्त्वा ' इत्यस्य स्थाने–आलय: मन्दिरं, त्रिदशालयः देवतामन्दिरं, तत्र जीविकां देवदासीत्वेन ं देवतायाः पुरः गीतनृत्यादिकर्मणा प्राप्तां वृति जीवनसाधनभूतां क्रमोपगतां कुलपरंपरया प्राप्तां, मुक्त्वा
आ. ५७८ पृ. १७३ टी. पं. १५ शेषः; इत्यनन्तरं — यद्वा सुरताय 'उद्योगः चुंबना लिंगनादिरूपः : उपक्रमः, तस्य अभाव : अकरणं वा सुखानुद्योगविधिः, तस्मिन् सति, कामदेवस्य, दोहददानं दोहदमत्र दिव्यदोहदं, तस्य दानं, " यद्दीयते तु देवे - भ्यो मनोराज्यस्य सिद्धये । उपयाचितकं तत्तु ( 'दिव्य' ) दोहदं संप्रचक्षते ॥” (२१) इति हारावल्यामुक्तेः, कामदेवाय उपयाचितकं दत्तं न भवतीत्यर्थः ॥
?
आ. ५८७ पृ. १७८ टी. पं. १२ सूचितं, इत्यनन्तरम् - यद्वा प्रग्रीवकं वातायनं, तत्समीपे स्थितं शयनं शय्या प्रग्रीवकशयनं तथा च विद्धशालभंजिकायां ( ३ ) " सन्निहित: अन्तःपुरद्वारप्रग्रीवे " इति, तथा " एतत्प्रग्रीवं, तदुपविशतु प्रियवयस्यः । " इति प्रग्रीवशब्दप्रयोगौ, तत्र टीकायां - " प्रग्रीवं वातायनं इति क्षीरस्वामी ( ३।५।३५ ), उपान्तप्रदेश इत्यपि केचित् । " इति नारायण: । " प्रग्रीवं मुखशालेति चाणक्यटीकाकृत्, मत्तवारणाख्यं दारु इत्यरुणदत्तः, गृहादौ वीथ्याद्याकप्रग्रीवमिति अन्यः । " इति अमर - टीका सर्वस्वे ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com