________________
शोधपत्रम् ।
आ. ६०६ पृ. १८७ टी. पं. १ अन्ते-काश्मीरप्रसिद्धाः । इमा: मुद्राः प्रथमं राज्ञा द्वितीयप्रवरसेनेन (ई. सं. ५८०) तदनन्तरं च कश्चित् कार्कोटवंशोद्भवैः राजभिः ‘किदार' इति शब्दाङ्किता आहताः । किदार इति तु अनार्याणां कुशनवंश्यानां राज्ञां लघुशाखाभेदः, ये (ई. सं. ४२५-४७५) गान्धारदेशं प्रशशासुः, ये च ईस्वीयपंचमशतकात् पश्चिमोत्तरदेशेषु विजितराज्या बभूवुः । तेश्च स्वाभिज्ञापककिदारशब्दः स्वैः आहतासु मुद्रासु प्रथमं उटुंकितः, स च प्रवरसेनादिभिः कैश्चित् काश्मीरराजैः स्वमुद्रासु तथैव प्रतिकृतितां नीत: इति पुराविदां मतम् । तासु एकतः ऊर्ध्वस्थितो राजा आसीना देवी किदार इति च वंशकृतो नाम, पृष्ठभागे च तत्तद्राशो नाम । एतासां शिल्पं तु अस्वच्छं वर्तते ॥
आ. ६४१ पृ. २०६ टी. पं. ८ त्यज्यत ॥” इत्यनन्तरम्-" पुंसि क्षीणधने न बांधवजनः पूर्व यथा वर्तते, स्थित्या केवलया स्थितः परिजनः स्वच्छन्दतां गच्छति । लोलत्वं सुहृदश्च यान्ति बहुश:, किं वा परैर्भाषणैः, भाया अपि भूतले स्फुटमहो नैवादरस्तादृशः ॥” इति,
आ. ७२३ पृ. २४९ टी. पं. १९ न प्रणयिवशा इत्यनन्तरम् नार्यस्य नशब्दस्य " सुप्सुपा " इति समासः,
आ. ७४३ प. २५८ टी. पं. १७-१८ इति कस्याश्चित् यद्वा इत्यस्य स्थाने-राजतरंगिण्यां (.४।८०) विशोकावितस्ताख्यनद्योः संगमे स्थितस्य गंभीरस्वामिनाम्नः विष्णुदेवालयस्य कीर्तनं वर्तते । तथा च पूर्व विष्णुमंदिराणां नामानि स्वामिशब्दान्तानि, शिवम न्दिराणां च ईश्वरशब्दान्तानि प्रथितानि । तेन
आ. ८२४ पृ. ३०४ टी. पं. १९ शेषः । इत्यनन्तरं-तथा च यशस्तिलकचंप्वां पञ्चमे आश्वासे-" द्वादशवर्षा योषा षोडशवर्षोचितस्थितिः पुरुषः । प्रीतिः परा परस्परमनयोः स्वर्गः स्मृतः सद्भिः ॥ " इति, तथा एतद्विवरणस्वरूपं तत्रैव षष्ठे"द्वादशवर्षा स्त्री, षोडशवर्षः पुरुषः, तयोरन्योन्यमनन्यसामान्यस्नेहरसोत्सेकप्रादुर्भूति: प्रीतिः प्रत्यक्षमधिसर्गः स्वर्गों, न पुनरदृष्टः कोऽपीष्टः स्वर्ग: समस्ति ।" इति ॥८२४॥
आ. ९३६ पृ. ३७२ टी. पं. १४ 'टीकायाम् । इत्यनन्तरम्--द्रंगास्तु काश्मीरेषु विविधमार्गेषु करोद्ग्रहणार्थ स्थापितानि स्थानानि, शुल्कस्थानानीत्यर्थः । द्रंगशब्दस्य कश्मीरभाषायां विलंब इत्यर्थः, करग्रहणस्थाने च विलंबस्य भावित्वात् एतत्स्थानानां द्रंग इति संज्ञा जाता इति केषांचिन्मतम् । तन्मंडले इमे गुल्मापरनामरक्षास्थानत्वेनापि उपयुक्ताः । द्रंगाधिकारी च नंगिक इति द्रांगिक इति दांगी इति च वलभीयदानपत्रेषु, देंगेश: मार्गेशो वा इति च राजतरंगिण्यां व्यवहृतः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com