________________
शोधपत्रम् ।
नयस्वभावं डोम्बिकादिभेदेन अनेकविधम् । तत्रैको भेद: शिंगटक:, यत्र प्रयोगे मसृणेऽपि बहुत्वेन उद्धतं प्रविशति । स च गीयमानरूपकाभिनयप्रधानः ॥ ]
आ. १०२–पृ. २४ - टी. पं. ५ शशधर मणिः । इत्यस्य स्थाने - शशधरकान्तं चन्द्रवत् शीतदायित्वेन दाहशामकत्वेन वा रमणीयं अभिलषणीयं इत्यर्थः । शशधरकान्तो इति पाठो भवेत्तदा चन्द्रमणिरित्यर्थः ।
४६०
•
9
आ. १४९–१० ३३–टी. पं. १६ इति ॥ इत्यनंतरम् - यद्वा कश्मीरेषु भाषायां 'डुपू' इति ख्यातं धूपनिर्मितौ उपयुक्तं प्रधानद्रव्यं तेन निर्मिता वर्तिः धूपतः ॥ १४९ आर्यामारभ्य १६२ आर्यापर्यन्तं प्रघट्टकमवलंब्य बौद्धपण्डितेन पद्मश्रिया स्वकीये नागर सर्वस्वाख्ये कामशास्त्रे वामाचरितप्रकाशो नाम सप्तत्रिंश, परिच्छेदो प्रथितः, यथोक्तं तत्र तेन - " तत्कुट्टनीमतमुदीक्ष्य वरांगनानां कान्ते विधेयमबलाचरितं प्रदिटम् ।” ( ३७ । १६ ) इति ॥
आ. १८० - पृ. ४१ - टी. पं. ११ विशेष:, इत्यन्तरम् - [ भूमेरषस्तात् सप्त भूविवरा: अतलादयः, तत्र आद्यं अतलं नाम इदं, तथा च श्रीमद्भागवते - " अथातले मयपुत्रोऽसुरो बलो निवसति । "यस्य च मुखतस्त्रयः स्त्रीगणा उदपद्यन्त स्वैरिण्यः कामिन्यः पुंश्चल्य इति । या वै बिलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा स्वविलासावलो कनानुरागंस्मितसंलापोपगूहनादिभिः स्वैरं किल रमयन्ति ॥” ( ५ | २४ । १६ ) इति ॥
" पृ॰ ४२–टी. पं. १ उन्नेयः । इत्यनन्तरम् - तथैव दशकुमारचरित द्वितीयो - च्छासारंभे- -" देव, त्वयि तदाऽवतीर्णे द्विजोपकारायासुर विवरं " इत्यत्र ॥
आ. २६१ - पृ. ५९ - टी. पं. ११ - २६० ॥ इत्यनन्तरम् - आलोकयामास सहसा दृष्टवान्,“ सहसा दर्शनं यत्तु तदालोकितमुच्यते । " इति भरतवचनात् ॥ आ. ३०७-पृ. ७१–टी. पं. १९ शमनार्थ, इत्यनन्तरम् - यद्वा, मांसरस: मांसेन निर्मितः सूपः, तस्य ग्रहणं च मैथुनान्ते हितमिति, यथोक्तं - " स्नानं सशर्करं क्षीरं भैक्ष्यमैक्षव संस्कृतम् । वातो मांसरस : स्वप्नो व्यवायान्ते हिता अमी ॥” इति । ( ऐक्षवं मैक्ष्यं मिष्टमित्यर्थः, 'मिठाइ ' इति भाषायां प्रसिद्धम् । व्यवाय: सुरतम् । )
ओ. ३२० - पृ. ७६ - टी. पं. २५ शिवरामः ॥ इत्यनन्तरम् - तथा च वासवदत्तागद्यच्छायाभूतं शब्दार्णवस्य कवीन्द्रवचनसमुच्चये समुद्धृतं प्राचीनं पद्यम्“ असावहं लोहमयी, स यस्याः क्रूरः सखि प्रस्तर [ एव ] कान्त: । आकर्षकद्रावकचुम्बकेषु नैकोऽप्यसौ, भ्रामक इत्यवेहि ॥ " इति ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com