________________
कुट्टनीमतम् ।
(८) एवं कविकर्मकाव्यपरिशीलनपरमानन्दप्रेप्सवः स्वबुद्धिज्ञानवैभवानुसारेण रसास्वादनपरा: रसिका अपि उत्तममध्यमाधमभेदैः त्रिविधाः । ( रसास्वादस्तु अलौकिक चमत्कारात्मा स्मृत्यनुमानलौकिकस्वसंवेदनविलक्षणः । विभावादयश्च तदभिव्यंजकाः । ) तत्र उत्तमास्तु यावद्विवक्षितरसादिग्राहिणो भवंति, सद्यश्च परमानंद - मनुभवति । मध्यमास्तु असमग्ररसादिग्राहिणः संतो विलंबेन रसानंदमनुभवंति ) अधमास्तु ईषत्स्वादितरसाः चिरतरकालेन आनंदलेशमुपभुंजन्ति, 'न हि रत्यादिनवचित्तवृत्तिशून्यः कोऽपि प्राणी भवति' । इति ॥
४५७
( ९ ) एवं काव्यभेदादि विचारयितुं ये प्रभवन्ति ते सहृदया अपि त्रिवि - धाः । गुणदोषविवेचका हंसा इव उत्तमाः, गुणैकदृष्टयः चकोरा इव मध्यमाः, दृष्टयः काका इव अधमाश्चेति ॥
(१०) अथेदं समग्रमपि काव्यं शृंगाररसानुकूलेनैकेनैवार्यावृत्तेन गीत्याद्युपभेदेन निबद्धम् । आर्या च प्राकृते गाथा इति व्यवह्नियते, आर्यागीतिश्च स्कंधक इति । इयं मात्र।च्छन्दः । पिंगळाचार्येण आर्याया ८० भेदाः उक्ताः, अर्वाचीनास्तु कतिपयभेदैः संतुष्टाः । आर्यालक्षणमधिकृत्य रागविबोधविवेके ( १५ ) - " अत्रार्या - च्छंदसि पूर्वार्धे चतुर्मात्राः सप्त गणाः अंते गुरुरेकः । विषमस्थाने जगणो न । षष्ठे जगणो लघुचतुष्टयं वा भवति । एवमेवोत्तरार्धं, परन्तु षष्ठे लघुरेक एव । एवं सप्तपंचाशन्मात्रात्मिका आर्या ॥ अस्यां पूर्वार्धे षष्ठे लघुचतुष्टये सति द्वितीयलघ्वादिकं पदं भवति, तत्रैवार्धे सप्तमे तु लघुचतुष्टये प्रथमलघुतः पदं भवति । उत्तरार्धे तु पंचमे 1 लघुचतुष्टये प्रथमलघुत एव पदम् ॥ एवं सति दलद्वयेऽपि आद्यासुं द्वादशमात्रास्त्वेव पदपूर्ती पथ्या भवति । विपुला तु पूर्वार्धे तु अप्रार्धे वा दलद्वये वा आद्याद्वादशमात्रोल्लंघनेन पदविच्छेदे भवति ॥ तथा च "स्वरा अर्ध चार्यार्धम् | ” (पिं. सू. ४/१४)
इति ॥ आर्या
।
अधुना तु सा
इत्यारभ्य " विपुलाऽन्या ।" इत्येतदन्तानि दश पिंगलसूत्राणि ॥” गानप्रकारस्तु संगीतरत्नाकरे चतुर्थाध्याये (लो. २२४) द्रष्टव्यः प्रायः देशरागादिरागैर्गीयते । हरिदासैस्तु आर्यागाने प्रथमचरणं द्विः, चतुर्थी च द्वित्रिवारं गीयते, तदन्ते च ' राम ( ३ ) राम ( ३ ) हरे हरे राम ( ३ ) इति पल्लवश्व निवेश्यते इति सर्व श्रीसंपन्नम् ॥
स्वीयेव सेवनरता, परकीयेव स्नेहमयी साक्षात् ।
,
वेश्येव विलासवती भार्या सा गुणवती जयति ॥ १ ॥ रत्नगोपालभट्टेनात्राल्पं टिप्पणकं कृतम् ।
असंतुष्टेन तद्दृष्ट्वा मया पल्लवितं बहु ॥ २ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com