________________
४५६
दामोदरगुप्तविरचितं
३९७-३९९, ८६५-८७४) वर्षाभिसारिकावर्णने (आ. ५९७-६०३ ) च हास्यः, मृगयावर्णने ( आ. ९५२-९५७) वीरः भयानकश्च । बीभत्सरौद्रौ तु परं शृंगारविरोधिनौ इति मात्रयाऽपि न संस्पृष्टौ । शान्तस्तु हारलतोपाख्यानोपसंहारे ( आ. ४९४-४९७)। एवं विविधवर्णनात्मकमणिगणगुंफितेऽस्मिन् काव्यहारे हारलतोपाख्यानं नायकायते ॥ केषाचित्तु रसो द्विविधः वाग्रसो वस्तुरसश्च । द्वावपि अत्र व्यक्ती एव ॥
अत्र नैको नायकः, नैका च नायिका, अस्य निदर्शनकाव्यत्वात् । तत्रादौ भट्टपुत्रः नायक: मालती च नायिका गौणो, तदवलंबकरसाविकसितत्वात्। मुख्यास्तु शृंगारस्य कृत्रिमाकृत्रिमत्वात् प्रथमे मंजरीसमरभटो, द्वितीये प्रत्युदाहरणत्वेन उपस्थापितौ हारलतासुंदरसेनौ च । आद्ययोः समागमोऽपि कृत्रिमः, प्रीतिरपि तथैव, फलं च रसाभास: । अपरयोस्तु समागमः प्रकृतिज: देवकृतः, प्रीतिरपि संप्रत्ययात्मिका ( सहजा), फलं च शुद्धशृंगाररसः । सर्वेऽपि नायका धीरललिताः, तत्रापि सुंदरसेनः प्रेम्णः स्वैर्यात् अनुकूलोऽपि । नायिकासु हारलता वसन्तसेना इव उत्तमा वेश्या, मंजरी मालती च अधमा वेश्या, यथा दशकुमारचरिते रागमंजरी, कथासरित्सागरे च रूपणिका ॥
(७) अथ कवयश्चतुर्विधाः, ध्वनिकविः रसकविः अलंकारकविः रीतिकविश्रेति । (तत्र संकीर्णरसोपनिबंधस्तु निकषो रसकवीनामित्यन्यत्र । ) तत्रास्य महाकवित्वात् ध्वन्यादिषु चतुलपि अस्मिन् काव्ये सत्सु अस्य रसकवित्वं स्फुटमेव ॥ (२) अपरमते कवयः सत्कविः विदग्धः अरोचकी सतृणाभ्यवहारकः इति चतुर्विधाः; यथोक्तं साहित्यमीमांसायां-" गुणप्रधानां यो रीतिं वैदर्भी प्रतिपद्यते । विपंचीस्वरसौभाग्यां सत्कविः प्रथमः स्मृतः ॥ यो वक्रोक्तिप्रधानः स्यात्स विदग्ध इतीर्यते । अर्थालंकारनिभूयो(बंध ?) ज्ञातयः (१) कवी रोचकी ॥ यः श्लेषचित्रयमक निर्बधस्तोमभूयसीम् । गौडी च श्लाघते स स्यात् सतृणाभ्यवहारकः ॥ " (१।५-८) इति ॥ एतदनुसारेणायं सत्कविरिति स्पष्टमेव ॥ (३) केचित्तु बुद्धिशक्तिभेदेन महाकवि: उत्पादककविर्वा संवर्धककविः परिवर्तककविः आच्छादककविश्चेति तेषां चतुर्विधत्वं मन्यन्ते । तत्र महाकविस्तु-"शब्दार्थोक्तिषु यः पश्येदिह किंचन नूतनम् । उल्लिखेत् किंचन प्राच्यं दृश्यतां स महाकविः ॥" इत्युक्तः। संवर्धकस्तु परोक्तं रमणीयतया पल्लवयति । परिवर्तकस्तु छायाकविः । आच्छादकस्तु परोक्तं किंचिन्न्यूनतया प्रकटयति । एतदृष्टयाऽयं कविः क्षेमेंद्रादिभिः समयमातृकादिष्वेतत्कृतेः अनुकरणात्
उत्पादककविः, वैशिकशास्त्रस्य संवर्धकत्वात् संवर्धककविर्वा ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com