SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ४५४ दामोदरगुप्तविरचितं चम्प्वाख्यं नाटकं चेति । द्वितीयं च त्रिविधं, ध्वनिप्रधानं रसस्यापि व्यंग्यत्वात् रसप्रधानं वा उत्तम, गुणीभूतव्यंग्यं मध्यम, तद्रहितत्वे सति शब्दार्थप्रधानं अधमं च । एतदृष्टया इदं उत्तमं पद्यकाव्यम् ॥ (६) अथ आनन्दस्वरूप एव आत्मा । सर्वव्यापि अपि तेजो यथा भित्त्याधुपाधिना व्यक्तीमवति, तथा आत्मनः आनंदस्वरूपं कविनिबद्धरसादिभावनया भावुकानां प्रकाशते, अतो रस एवात्मा काव्यस्य, रसप्रधानं च काव्यमुत्तमम् । तादृशं च मनसः एकाग्रताभ्यासापादनेन आनंदाविर्भावकतया च तत्त्वज्ञानयोग्यतां संपादयति ॥ काव्यं च रसात्मकं वाक्यम् । वाक्यं च विशिष्टौ शब्दार्थों । वैशिष्टयं च धर्ममुखेन व्यापारमुखेन व्यंग्यमुखेन वा इति त्रयः पक्षाः । आये अलंकारतो गुणतो वा, द्वितीये. भणितिवैचित्र्येण अन्यप्रकारेण वा ॥ अपि च रसा हि काव्यस्य आत्मत्वेन व्यवस्थिताः । शब्दार्थों च शरीररूपतया । तेन रसाधिष्ठितस्यैव काव्यस्य जीवद्रूपतया व्यपदेशः क्रियते । रसाभिव्यक्तिश्च प्रसादगुणेन सुतरां भवति । यथा च सालं. कारा सुरूपाऽपि युवती विना गुणान् रसं न स्वदते, एवं शब्दार्थालंकारप्रधानमपि निर्गुणं काव्यं रसोदयाय न प्रभवति । अपि च भावनिबंधना रसाः, तत्र भावस्य विभावानां चिरकालवर्तित्वे स्थायित्वं, अल्पकालीनत्वे तु व्यभिचारित्वम् । “ तददोषौ शब्दार्थों सगुणाव०॥ (का.प्र. ११३) इत्यादिकाव्यलक्षणे तु रसस्योत्कर्षापकर्षहेतू गुणदोषौ भक्त्या शब्दार्ययोः उपचर्यते इति ज्ञेयम् । तत्र गुणाः ओजःप्रसादसमताश्लेषादयः शब्दार्थोभयनिष्ठाः । (तत्र ओज:-बंधस्य गाढत्वं, अर्थस्य प्रौढिश्च ) तत्र बंधस्य त्रयः प्रकाराः तत्तद्रसानुगुण्येन प्रयोज्याः, प्रौढो मदुः मध्यश्चेति । (प्रौढत्वं शब्दे समासे च ।) ॥ स च 'रतिप्रकर्षे कोमल: शब्दसंदर्भः, उत्साहे प्रौढः, क्रोधे कठोरः, शोके मृदुः, विस्मये स्फुटः, ' इत्यादिदिशा साहित्यतत्त्वविद्भिनिर्णीतः ॥ प्रसादः शैथिल्यं अर्यवेमल्यं च ॥ समता शब्दार्थविषयक उत्कर्षः ॥ श्लेष: मसृणत्वं घटनालेषश्च । प्रकृतकाव्ये मधुरत्वमपि प्रबंधव्यापी गुणः, यो महाकविकृतिषु स्फुटमनुभूयते । तल्लक्षणं च-" बहुशो यच्छ्रतमभिहितं वाक्यमनुद्वेजकं मनसस्तन्मधुरमिति । " इति ॥ अलंकाराश्व-“प्राय: स्वतोऽङ्गद्वारेण ये रसस्योपकारकाः । तेऽलंकाराः समाख्याता: कटकाद्या इवात्मनः ॥” इति साहित्यचिंतामणौ वर्णिता: अनुप्रासोपमाद्याः आरोप्या अपि अंगभूताः शोभाकराः शब्दार्थालंकाराः । अलंकारयोजनप्रयोजनं तु-" कवीनामभिधेयं प्रति त्रयः पन्थानः । एते न्यूनमुत्कर्षति, अधिकमपकर्षति, यथार्थ वस्तूपस्थापयन्ति ।" इति काव्यानुशासनविवेके (४)। तदुक्तं-" विनोत्कर्षापकर्षाभ्यां स्वदंतेऽर्या न जातुचित् । तदर्थमेव कवयोऽलंकारं पर्युपासते ॥” इति ॥ अपि च Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy