________________
कुटनीमतम् ।
सस तप्रियतां भेजे न शूरो न च पंडित:" ॥ (६६३) । इति । ( पांचालीय: पंचालदेशोद्भवः बाभ्रव्यः, तेन प्रोक्ता विद्या: कामशास्त्रविषयका उपदेशा: पांचालीयविद्याः।)॥
(५) अथास्य विधिनिषेधावगतिहेतुभूतमहावाक्यस्य काव्यप्रबन्धस्य तद्रेदेषु श्रव्याख्यकाव्यभेदे निदर्शनाख्यविभागान्त:पातित्वं इति प्राचां निर्णयः, यथाऽऽह"निश्चीयते तिरश्चामतिरश्चां वाऽपि यत्र चेष्टाभिः। कार्यमकार्य वा तन्निदर्शनं पञ्चतन्त्रादि ॥ धूर्तविट-कुट्टनीमत-मयूरमार्जारादिके लोके । कार्याकार्यनिरूपणरूपमिह निदर्शनं तदपि ॥” इति । ( काव्यानुशासनविवेके हेमचंद्रेणोद्धृतमिदम् ।) ॥ प्रकारान्तरेस्तु-अस्य वस्तुन: कविप्रतिभयैव उत्पादनात् 'उत्पाद्यवस्तु काव्यं' इदम् ॥ यद्वा महाकाव्येषु प्रायः धर्मादीनां पुरुषार्थानां उपदेशः शृंगारादित्रिचतुरा रसाश्च समस्यते, लघुकाव्येषु तु एकस्यैव कस्यचित्पुरुषार्थस्य रसस्य वाऽवलंबनम् । एतद्दृष्टया महाकाव्यलक्षणानुबन्धेन यद्यप्यत्र शंगारकरुणवीराः रसाः, साक्षात् भक्त्या वा धर्मादीनां पुरुषार्थानां बोधः, तथाऽत्र काशी (आ.३-१७) पाटलिपुत्र (आ. १७६-१९२) नगरयोर्वर्णनं, अर्बुदशैलस्य वर्णन ( आ. २४०-२५३ ), नायकवंशप्रशंसनं (आ. १९३-२०० ), वसंत (आ. ६६६-६९१) वर्षा ( आ. ५८६-५९८)ख्यत्वोः हृदयंगममालेखनं, दूतीप्रेषणं ( आ. १८९ इ०), यूनां क्रीडा ( आ. ६६६-६९१), रतोत्सवः (आ.३७५-४०३), विप्रलंभः (आ. २८८-३००,४४६-४६४), कथाविशेषश्च निबद्धाः, इति महाकाव्यगुणानां बाहुल्यं, तथापि तत्तद्वर्णनानामनतिविस्तरत्वात् सर्गच्छेदाभावाच्च, एकस्य कामपुरुषार्थस्य शंगाररसस्य च प्राधान्येन निबंधनात् इदं. लघुकाव्यमेव, यथोक्तं काव्यालंकारे-" ते लघवो विशेया येष्वन्यतमो भवेच्चतुर्वर्गात् । असमग्रानेकरसा, ये च समग्रेकरसयुक्ताः ॥" ( १६१६) इति । तत्रापि साद्यन्तमेकवृत्तनिबद्धत्वात् खंडकाव्यमिदम् ॥ यद्वा, भामहमनुसृत्य क्षेमेन्द्रेण सुवृत्ततिलके तृतीये विन्यासे प्रबंधानां शास्त्रं, काव्यं, शास्त्रकाव्यं, काव्यशास्त्रं, इति चतुर्विधत्वमुक्तम् । तदृष्टया इदं प्राधान्येन रसवत्तया काव्यं, तत्रापि शृंगाररसानुकूलार्यावृत्तैकनिबद्धत्वात् पद्यकाव्यं, तत्रापि पूर्वोक्तदिशा लघुकाव्यं निदर्शनकाव्यं वा; गौणतया तु वेश्याकर्मोपदेशकत्वात् वैशिकं शास्त्रमपि; एवं काव्यशास्त्रोभयगुणत्वात् इदं भट्टिभौमककाव्यादिवत् काव्यशास्त्रं, काव्यं च शास्त्रं चेति । यद्वा विविधक्रीडावर्णनमयत्वात् भवतु केलिकाव्यमपि ॥ पुनश्च काव्यं द्विविधं बाह्यशरीरान्तर्गुणरूपविभाजकधर्माभ्याम् । तत्राद्यं पद्यं गद्यं गद्यपद्यात्मकं चेति त्रिविधम् । अत्रान्तिमं द्विविधं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com