________________
दामोदरगुप्तविरचितं
दुत्पन्ना पुरुषसंभोगवृत्तिर्वेश्येति ब्राह्मण्यादिवल्लोकप्रसिद्धिबलादभ्युपगमनीया। न च निर्मलेयं प्रसिद्धिः । स्मर्यते हि स्कन्दपुराणे-"पंचचूडा नाम काश्चनाप्सरसः तत्सं. ततिर्वेश्याख्या पंचमी जातिः” इति । अतस्तासां नियतपुरुषपरिणयनविधिविधुरतया समानोत्कृष्टजातिपुरुषाभिगमने नादृष्टदोषो नापि दण्डः । तासु चानवरुद्धासु गच्छतां पुरुषाणां यद्यपि न दण्डः, तथाऽप्यदृष्टदोषोऽस्त्येव, “स्वदारनियतः सदा ।। इति नियमात्, “ पशुवेश्याभिगमने प्रायश्चित्तं विधीयते । " इति प्रायश्चित्तस्मरणाच । याज्ञ. मिताक्षरायां २।२९० श्लोकव्याख्यायां वेश्योत्पत्त्यादिकं वर्णितम् । वेश्याश्च देवालयेषु ( नृत्यादि )कार्यविशेषार्थमाश्यका इत्यादिकं स्पष्टतयाऽऽगमप्रथेषूपलभ्यते॥" इति महीशूरराजधर्माधिकारिणः धर्मव्याकरणशाम्रपारंगताः काशीशेषवेंकटाचलशास्त्रिणः ॥
(३) सामान्यासुरततारतम्यादिकं ८१२ आर्याटीकायामुक्तं, तत्र यद्यपि पारदारिकवत् वेश्यारतमपि क्वचित्तृतीयपुरुषार्थंकदृष्टया प्रशंसितं यथा “गाढालिंगनपीडितस्तनतट स्विद्यत्कपोलस्थलं संदष्टाघरमुक्तसीत्कृतलसद्भूभ्रान्तनृत्यत्करम् । चाटुप्रायवचोविचित्रभणितं घातै रुतैश्चांकितं, वेश्यानां धृतिघाम पुष्पधनुषः प्राप्नोति धन्यो रतम् ॥” इति, तथापि धर्मार्थयोरतिशयेन विघातकत्वात् उपदंशादिरोगनिमित्तत्वादतिनिन्द्यमेव ॥
(४) बहुमायानि वेश्याचरितानि साहित्ये दत्तकसूत्रे, वात्स्यायनीये कामसूत्रे षष्ठे वैशिकाधिकरणे, दशकुमारचरितस्य द्वितीयोच्छासे, महाकविना क्षेमेन्द्रेण इदमेव काव्यमनुसृत्य विरचितायां अष्टसमयात्मिकायां समयमातृकायां (वि. सं. ११०६), बृहत्कथामंजों च, कथासरित्सागरस्य दशमे शक्तियशोलंभके प्रथमे तरंगे कुट्टन्याः केनचित् धनपतिना स्वपुत्रस्य वेश्याचरितशिक्षाग्राहणे, रामभक्त (१)कृतविटवृत्ते च निबद्धानि । तथा क्षेमेन्द्रेण कलाविलासकाव्यस्य चतुर्थे सर्गे तासां चतुःषष्टिः कला निर्दिष्टाः ॥ अपि च रोगधनहानिमनोधःपातादिहेतुभूतास्ताः अमितगतिना ( वि.सं. १०५०) सुभाषितरत्नसंदोहे २४ विभागे, काश्मीरिकजहणेन (वि.सं. १२०६) च मुग्धोपदेशे परं साक्षानिंदिताः ॥ अपि च विद्यमानेऽप्यस्मिन्प्रबन्धरत्ने ग्रंथकर्तुः स्वामिनः पुत्रो राजा ललितापीडः (वि.सं. ८६९-८८१) एव, विधेः कुटिलविलसितत्वं समर्थयन्निव, गणिकासख: सन् वेश्याविटादिसंभुक्तसर्वस्वोऽभूत् । तथाहि राजतरंगिण्यां ४ तरंगे-" बभूव रागिणो राज्ये राज्यकार्याण्यपश्यतः । यस्य वारांगनाभोग्य राज्यं दुर्नयदूषितम् ॥ (६६१)। बंधकीबंधुभावेन प्राप्तराजगृहाश्रयाः। तं पांचालीयविद्यानामन्तरंग न्यधुर्विटाः ॥ (६६२) । योयो वेश्याकथाभिज्ञः योयो नर्मविचक्षणः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com