________________
कुट्टनीमतम् ।
(१) अथास्य काव्यस्य वैशिकाधिकारपरत्वात् वेश्यावर्णनपराः काश्चन सूक्तयः रसिकजनमनोविनोदाय संगृह्यन्ते तत्रादौ वेश्यायाः राजनीतिसाम्यप्रतिपादिका:सत्यांऽनृता च, परुषा प्रियवादिनी च हिंसा दयालुरपि चार्थपरा वदान्या । नित्यव्यया प्रचुरचित्रधनागमा च, वेश्याङ्गनेव नृपनीतिरनेकरूपा ॥ ( तंत्राख्यायिके १|१८५ ); " धनप्रधानं जनजीवभूतं लोकेषु तत्रापि विशेषयोगात् । जनाभिसारप्रतिपत्तिभाजां महीभुजां वेशमृगीदृशां च || ” ( समयमा तृकायाम् ४/८०) इति ॥ तस्या: कृपाण्या साम्यदर्शिका - " सश्रीका विस्फुरंती सततपुलकितं दर्शयंती निजांग, सद्रागा वीर्यभाजां मनसि सरभसं क्षोभमुत्पादयन्ती । आश्लिष्यंती किलान्यं समिति सुविपुले कंठदेशेऽतिगाढं, या वारस्त्रीव सक्ता भवति विजयते साऽस्य जैत्रा कृपाणी ॥ " इति ( खङ्गशतके ९१ ), ( समिति संग्रामे सभायां वा । ); तस्या राजसभया साम्यदर्शिका - " निर्यान्त्यन्ये विशन्त्यन्ये प्रतीक्षते बहिः परे । यस्याः सा शोभते वेश्या सभा भूमिपतेरिव ॥ " ( बोधिस० ५०।९१ ) इति तस्या: सत्कवितया साम्यदर्शिका:- "गुणवती ललिताऽपि न शोभते तनुतरार्थ कदर्थनयाऽन्विता । सुकविसूक्तिरिवार्थवती परं व्रजति वेशवधूः स्पृहणीयताम् ॥ " ( स. मा. ४|१३२ ); “ सालंकारतया विभक्तिरुचिरच्छायाविशेषाश्रया, वक्रा सादरचर्वणा रसवती मुग्धाऽर्यलब्धा परम् । आश्चर्योचितवर्णना नवनवास्वादप्रमोदाचिंता, वेश्या सत्कविभारतीव हरति प्रौढा कलाशालिनी ॥ " ( स. मा. प्रशस्तौ १ ), ( आस्वाद : रस: 1 ), इति; वेश्यारसिकस्य कुकविना साम्यदर्शिका - " गणयन्ति नापशब्दं न वृत्तभंगं क्षयं न वाऽर्थस्य | रसिकत्वेनाकुलिता वेश्यापतयः कुकवयश्च ॥ " इति; भिक्षूणां वेश्यासाम्यदर्शिका - " प्रागर्थ परिहृत्य मोक्षपदवीं ध्यायन्ति निर्मत्सरा, बाळप्रौढकुलीनहीनविषये सर्वत्र साधारणाः । रागद्वेषममत्व कर्षितधियो वेश्यासमा भिक्षवस्त्वं जानन्नपि निश्चयादहह किं कामार्णवे मजसि || ” ( १।३३ ) इति धूर्त - समागमप्रहसने; प्रकीर्णा च - " तन्वीं रौप्यविभूषणामतिमदुस्पर्शी मनोहारिणीं गौरांगीं पदबद्धकांस्यवलयां हस्ते गृहीत्वा मुहुः । सोल्लासं व्यचरं मुदा प्रतिदिनं, तां कोऽपि धूर्तोऽहरद्, ब्रह्मंस्ते गणिकाऽस्ति किं नहिनहि, प्राणप्रिया यष्टिका ॥ " इति ॥
( २ ) अथ प्रसंगत: वेश्यानां का जातिरिति विचारे - " यत्पुनर्वेश्यानां जात्यन्तरासंभवेन वर्णान्तः पातित्वमनुमानादुक्तं, - वेश्याः वर्णानुलोमाद्यन्त: पाविन्य: मनुष्यजात्याश्रयत्वात् ब्राह्मणादिवदित्यनुमानात् - इति, तन्न, कुण्डगोलकादिभिरनैकान्तिकत्वात् । अतो वेश्याख्या जातिरनादिर्वेश्यायामुत्कृष्टजातेः समानजातेर्वा पुरुषा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
66
४५१
www.umaragyanbhandar.com