________________
दामोदरगुप्तविरचितं
मनसि च निधाय दामोदरगुप्तकविना इदं काव्यं व्यरचि । तत्रापि "सूक्तीनां प्रतिभानां च मंजरीणां च जृंभितम् । नवमेव मनोहारि नारीणामिव यौवनम् || ” ( बोधिसत्त्वा ५३(११)इत्यत्र दृष्टान्तमिव ददता क्वचित्क्वचित् प्रतिभया नवनवमुक्तं, तत्तु टीकायां तत्रतत्र प्रदर्शितम् ||–अपि च “चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि । काव्यात् ” इत्याद्यभियुक्तोक्तेः धर्मादित्रिविधशृंगारमूलासु स्वीयादित्रिविधनायिकासु अल्पेऽपि धर्मशृंगारपरस्वीयारतादिवर्णने ( आ० ४४० - ४४२ ) तस्यैव परमोत्कर्ष: कंठत उक्तः । तथा ८१२–८६१ आर्याभिः कामशृंगारपरा परकीयारतिवर्णने उपसंहारे उभयलोकनाशः प्रदर्शितः । अपि च नीतेः धर्मेऽन्तर्भावः । आधुनिकानां मते सा चतुर्विधाव्यक्तिनीतिः परिवारनीतिः समाजनीतिः राजनीतिश्चेति । तासामप्युपभेदाः । तत्र व्यक्तिनीतौ वेश्यादिधूर्तेभ्योऽर्थरक्षणं प्राधान्येनोपदिष्टं, विनयश्च । परिवारनीतौ हारलतोपाख्याने दांपत्यप्रेम-पितृभक्ति - मित्रभक्त्यादीनामुदाहरणानि । समाजनीतौ कचित्वचिदौदार्यदयापरोपकारादीनामुपदेशा: । राजनीतौ च मृगयागुणाख्यानं कृतम् । तत्रतत्र • च अर्थान्तरन्या सालंकारप्रयोगैः बहूनि नीतिसूत्राणि निबद्धानि । एवमत्र भूयसा धर्मस्य व्युत्पत्तिः ॥ तथा प्रबंधव्यापिना सामान्यानायिकानां अर्थाहरणोपायप्रकाराणां प्रदर्शनेन • सर्वव्यवहारमूलार्थनाशहेतु भूतानां तासां हेयतासूचनेन अर्थपुरुषार्थरक्षणमुक्तम् ॥ तथा तत्रतत्र नानाप्रकारक रमणी रमणीयविलासादिवर्णनै:, तथा अनुरागेगितादयः केचन विषया वेश्या अधिकृत्य निबद्धा अपि ते स्वीयाद्यन्यनायिका साधारणाः, अर्थार्जनोपाया दखिपरदारसामान्याः, वेश्यारतिवर्णनानि च स्वीयायामपि अतिदेशयितुं शक्यानीत्येतैश्च कामपुरुषार्थस्य काश्चन पदव्यः स्फुटमाविष्कृताः ॥ तथा हारलतोपाख्यानें प्रियनाशसमुत्थतीव्रवैराग्येण फलतया नायकस्य संन्यासाश्रमस्वी कारकथनेन पुरुषार्थचूडामणेर्मोक्षस्यापि दिशा प्रकटिता ॥ इत्येवमत्र कविवर्येण चत्वारोऽपि पुरुषार्थाः निबद्धा ज्ञेयाः ॥ अस्य काव्यस्य च अधिकारिण: वेश्यादिदुश्चरितरहस्यजिज्ञासवः, विषयित्वे सति स्त्रीरतिचिक्षिप्सवः, अलौकिककाव्यानंदरसपिपासवो वा ॥ अपि चास्य प्रबन्धरत्नस्य विरक्तस्वीया - परदार- वेश्यानां दुश्चरितवर्णनैः विषयेषु प्रबलतमे स्त्रीविषयकानुरागे व्यंग्यतया वैराग्यजनकत्वेन विषयनिवृत्तौ तात्पर्य, स्त्रीणां दुश्चरितज्ञानेन दृढवैराग्यपुरःसरं कामाख्यं प्रबलतमं हृद्रोगं रिपुं वा पराजित्य परमपुरुषार्थाभिमुखः पुरुषो भवेदिति । तथा शृंगाररसस्य परब्रह्मानन्द सब्रह्मचारित्वात् तद्रसप्रधानस्यैतस्य काव्यस्य तथात्वमिति सर्व भद्रम् ॥
E
४.५०
1:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
०
www.umaragyanbhandar.com