________________
हनीमतम् ।
४४९
सु. ति.) (ई. सं. १०८०-१०८८); तत्सूनु: श्रीहर्षश्च (सु. ति.), उत्पलराजदेवश्च (कविकंठाभरणे.) ॥ तस्य जयापीडस्य यः मंत्रिप्रवरः मंत्रिषु अमात्येषु अर्थचिंतनासहायेषु मुख्यः, मंत्री च-" स्थितस्य कार्यस्य समुद्भवार्थमनर्थकार्यप्रतिघातनार्थम् । आगामिनोऽर्थस्य च संग्रहार्थ यो मन्त्रकृत्स्यात् परमः स मंत्री ॥" इति विक्रमार्कचरित्रे उक्तलक्षणः, वर्णितश्चेत्यं तत्रैव-" स्वामिकार्यार्थमुद्यमः, पापाद्भयं, प्रजानां हितं, परिवाराणां संयोजनं, राज्ञश्चित्तवृत्त्यनुसरणं, समयोचितपरिशानं, अपायकार्याद्राजनिवारणं-एवंविधगुणयुक्तः कुलक्रमागत: कामंदकचाणक्यधौम्यशुक्रवाचस्पत्यादिनीतिशास्राभिज्ञो मन्त्रिपदयोग्यो भवति ।" इति, तथा-" अदीर्घसूत्रः स्मृतिमान् कृतज्ञो नीतिशास्त्रवित् । धीमानायतिदशी च मंत्री राज्ञः सुसंनिधिः ॥" (५।१६) इति चाणक्यराजनीतिशास्ने उक्तः ॥ तादृश: यः दामोदरगुप्तकविः दामोदरगुप्तः इति अभिधानं यस्य सः कविः ( इति मध्यमपदलोपी समासः ), यद्वा दामोदरगुप्तश्चासौ कविश्चेति कर्मधारयः । तथाहि राजतरंगिण्यां-" स दामोदरगुप्ताख्यं कुट्टनीमतकारिणम् । कवि, कविं बलिरिव, धुर्य धीसचिवं व्यधात् ॥ " (४।४९५) इति । (स: जयापीडः, कविं शुक्र, धुर्य धीसचिवं मंत्रिप्रवरम् ।) अनेन अनुमीयते यत् कुट्टनीमतकृति आलोक्य श्रीजयापीडेन स मंत्रिप्रवराधिकारे नियुक्तः । परमोचितं चेदं यतः "सत्याऽनृता च, परुषा प्रियवादिनी च, हिंसा दयालुरपि, चार्थपरा वदान्या । नित्यव्यया प्रचुरचित्रधनागमा च, वेश्याङ्गनेव नृपनीतिरनेकरूपा * (तंत्राख्यायिके १।१८५) इत्युक्ते: अनया कृत्या प्रकाशितवैशिकतंत्रपारंगतत्वस्य तस्य राजनीतिपारंगतत्वं अर्थात् सिद्धमिति ॥ तेन विरचितं कृतम् ॥-" काव्ये यस्साध्य सदनुसारेणैव काव्यसंज्ञा कर्तव्या” इति नयात् प्रबंधनामाह कुट्टनीमतमिति । कुहनीमतं कुट्टन्या: मतं सम्मतं अभिप्रायः तत् अधिकृत्य विषयीकृत्य कृतः ग्रंथ: कुट्टनीमतम्, यदा विविधानि तानि अत्र सन्तीति कुट्टनीमतानीत्यस्मात् अर्शआद्यचि विभक्तिलुकि यस्येति चेत्यकारस्य लोपे कुट्टनीमतं इति काव्यनाम, अभिधानाभिधेयलक्षणश्च सामर्थ्यात् संबंधः, यत: कुट्टन्याः मतं इह अभिधेयं, इदं च काव्यं वचनरूपोपन्नं अभिधानं इति । समाप्तं चरमवर्णध्वंसरूपा समाप्ति प्राप्तम् ॥-अस्याः कृतेः प्रयोजनं च कवेः सत्त्वा नुग्रहः, पाठकस्य च तदधिगमेन तदर्थमवधार्य तथाचरणेन चरमार्योक्तफलावाप्तिः (आ. १०५९); परंपरितं प्रयोजनं तु कवे: सद्धर्मोपदेशात् महत्पुण्यं, कुशलानुष्ठानस्य तदेकफलत्वात् , पाठकस्य च ऐहिकपारलौकिकसुखावाप्तिः, इत्यादिकं चरमार्याटीकायां विस्तरेणोक्तम् । वात्स्यायनेन मुनिना कामशास्त्रे षष्ठेऽधिकरणे प्रपंचितं वैशिकमवलंब्य, " यथौषधं स्वादु च रोगहारि च हितं मनोहारि च दुर्लभं वचः।" इति २९
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat