________________
४४८
दामोदरगुप्तविरचितं
तैः स्तुतः सः " नितान्तं कृतकृत्यस्य गुणवृद्धिविधायिनः । श्रीजयापीडदेवस्य पाणिनेश्च किमन्तरम् ॥” (राजत० ४।६३५ ) इति ॥ अपि च " विद्वान्दीनारलक्षण प्रत्यहं कृतवेतनः । भट्टोऽभूदुद्भटस्तस्य भूमिभर्तुः सभापतिः ॥ " ( राजत० ४। ४९४) इति तस्य अपूर्व विद्वत्प्रियत्वं सूचयति । (उद्भटभट्टस्तु आलंकारिकः कुमारसंभवकाव्यस्य भामहकृतकाव्यालंकारस्य विवरणस्य काव्यालंकारसारसंग्रहस्य च कर्ता, यदुपरि प्रतीहार-इंदुराजेन लघुवृत्तिः राजानकतिलकेन च उद्भटविवेकनाम्नी टीका विरचिता ।) तत्सभालंकारभूतास्तु अपरे-" मनोरथः शंखदत्तश्चटकः संधिमांस्तथा । बभूवुः कवयस्तस्य वामनाद्याश्च मंत्रिणः ॥ " (४।४९६) इत्यपि तत्रैवोक्तम् । एतेषु वामनः सवृत्तिककाव्यालंकारसूत्र-सवृत्तिकलिंगानुशासनयो: कर्ता प्रसिद्ध एव । अपरेषां विशेषोऽद्यावधि न प्रकाशमुपगतः ॥ एतादृशः कविपंडितसुहृत् राजा स्वयमपि कविरभूत् इति नाश्चर्यम् । तथाहि द्वितीयदिग्विजयसमये नेपालदेशमाक्रामन् सः विधिविलसितत्वात् तद्राज्ञा गृहीत्वा अत्युच्चवेश्मनि क्षिप्तः । तदा “ अवस्थावेदकास्तत्र प्रथिता पृथिवीभुजा। आर्द्रान्तःकरणैः श्लोकाः स्मर्यन्तेऽद्यापि सूरिभिः ॥ " (४/५५०) इति राजतरंगिण्युक्तं तस्य उत्तमकविभावं सूचयति । एतत्समुच्चयस्य नाद्यापि समुपलब्धिः तथापि तेषु अन्यतमः सुभाषितावलौ उदाहृतः प्रतीयते । स च यथा-" पुरो रेवापारे गिरिरतिदुरारोहशिखर:, सरः सन्ये, वामे दवदहनदाहव्यतिकरः । धनुष्पाणिः पश्चाच्छबरहतको धावतितरां, नःयातुं न स्थातुं हरिणशिशुरेष प्रभवति ॥ " (६६१) इति । तस्य चेदमपरं सूक्तं राजतरंगिण्यां (४।४४१)-" असमाप्तजिगीषस्य वीचिंता का मनस्विनः । अनाक्रम्य जगत्सर्व नो संध्यां भजते रविः ॥” इति । ( अत्र समासोक्तिमूलक: अर्थान्तरन्यासालंकारः।) उत्तरकाले तस्य चरितविपर्यये तस्य पूर्वोदाहृता नुतिः व्याजस्तुत्या पंडितैः एवं परिवर्तिता-" कृतविप्रोपसर्गस्य भूतनिष्ठाविधायिनः । श्रीजयापीडदेवस्य पाणिनेश्च किमन्तरम् " ( राजत० ४।६३७) इति । एतस्य चित्रचरितस्य वीरस्य महापंडितस्य श्रीजयापीडराजस्य विस्तरतो वृत्तं कल्हणविरचि. तराजतरंगिण्यां चतुर्थे तरंगे ४०२-६५९ श्लोकेषु द्रष्टव्यम् ॥-अस्मिन् शारदादेशापरनाम्नि काश्मीरमंडले अन्ये बहवो राजानः कवयो बभुवुः । ते च गोपादित्यः (सुभाषितावलौ शार्ङ्गधरपद्धतौ चास्य श्लोकाः समुद्धृताः ), (प्राकृते )रावणवधापरनामकसेतुबंधाख्यकाव्यकर्ता प्रवरसेनः (ई. सं. ४३२), मुक्तापीडः (सुभा०) (ई. सं. ५९४), तुंजीनापरनामा रणादित्यः (सुभा०, सुवृत्ततिलके च ।), विग्रहराजः (सुभा०), अवंतिवर्मा (सुभा०) (ई. सं. ८८५), कलशकः (सुभा०, Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com