________________
कुट्टनीमतम् ।
6
४४७
किकं फलम् । पाठकानां च निंद्यवेश्यासेवनोपरमात् धर्मत्राणात् अपापं पारलौकिकं फलम् | अत्रेदमपि बोध्यं यत्-प्रवृत्तिधर्मेषु प्राकृता: ऐहिकफलमात्रलुब्धाः, अप्राकृताः पारलौकिक फलप्रवणमतयः, विदग्धास्तु उभयफलसाधकाः । तच्च द्विविधं फलं काव्यादिद्वारा सरलतया साध्यते इति कवीनां परमोत्कर्षः इति । काव्यस्य तु साधुविगर्हितादपथान्निवर्तनं सत्पथे प्रवर्तनं च परमं फलं काव्यस्य । इत्येतत्साहित्यरहस्यविदां संमतं मुख्यं फलं, तदनया कविना सूचितं, ततः धर्मार्थरक्षे च आनुiगि फले इति व्यक्तमेव ॥ १०५९ ॥
इति श्रीत्यादि ग्रन्थसमाप्तौ प्रशस्तिः । इतिशब्दः अत्र एवमर्थकः पूर्वोक्तार्थपरामर्शक । श्रीकाश्मीरमहामंडलं श्रिया लक्ष्म्या धनधान्यादिसमृद्धया युतं यत् काश्मीराख्यं महामण्डलम् । काश्मीरदेशश्च - " शारदामठमारभ्य कुंकुमाद्रितटान्तकः। तावत्काश्मीरदेशः स्यात्पंचाशद्योजनात्मकः ॥ " ( शक्तिसंगमतंत्रे,) इत्युक्तः, तन्नाम्नैव प्रसिद्धः। मण्डलं देश:, स च समंतात् विंशतियोजनं चत्वारिंशद्योजनं वा इति केचित् । ततोऽपि महान् महामंडलः, तदेव मही पृथ्वी तां मण्डयति भूषयते अलंकुरुते इति महीमंडनः, एतत्पदं राज्ञां विरुदं यथा पृथिवीवल्लभादिकं, य: राजा शासकपालकः, जयापीडः इति तस्य राज्ञो नाम || जयापीडः - अयं कार्कोटवंशे जातः वज्रादित्यापरनामकवप्पियस्य कनीयान् आत्मजः विनयादित्येत्यपरनामा स्वभ्रातुः संग्रामपीडस्य अनन्तरं ख्रिस्तीयवत्सरेषु ( कल्हणानुसारेण ) ७५१-७८२ संख्याकवत्सरेषु (मतान्तरेण खि० व० ७७९-८१३ ) काश्मीरान् परिपालयामास । महावीरोऽयं राजा दिग्विजयाय द्वि: प्रस्थानमकरोत्, महापंडितश्चायं स्वयं कविः वैयाकरणश्च सन् बहून् महाकवीन् विदुषश्च पोषयामास, तैश्च स्वसभां परं मंडयामास । अनेन स्वनाम - जयापीडनामाङ्किताः मुद्रा: ( ४/४१६ ), विनयादित्यनामांकिताश्चापि ताः ( ४ | ५१७ ) उट्टंकिता: । अयं उत्तरकाले लोभवशंवदो भूत्वा विपर्यस्तचरित्रः प्रजाब्राह्मणपीडकोऽभूत्, दुर्दशया चावसानं गतः ॥ अस्य साहित्यव्याकरणयोः रसिकत्वे उक्तं राजतरंगिण्यां-" उत्पत्तिभूमौ देशेऽस्मिन्दूरदूरतिरोहिता । कश्यपेन वितस्तेव तेन विद्याऽवतारिता || देशान्तरादागमय्य व्याचक्षाणः क्षमापतिः । प्रावर्तयत विच्छिन्नं महाभाष्यं स्वमंडले || क्षीराभिधाच्छब्दविद्योपाध्यायात्संभृतश्रुतः । बुधैः सह ययौ वृद्धिं स जयापीडपंडितः || ” ( ४|४८६-४८८) । ( अनेन तेन महाप्रयत्नेन स्वमंडले व्याकरणाध्ययनं पुनरुज्जीवितं इत्युक्तम् । क्षाराख्यः अत्र निर्दिष्ट: महावैयाकरण: एकादशशतके समुद्भूतात् अमरकोशोद्घाटन धातुतरंगिण्यादिकर्तुः क्षीरस्वामिनः भिन्न एव । अयं जयापीडः पंडितेभ्योऽपि महाभाष्यं व्याचख्यौ, तद
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com