SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ दामोदरगुप्तविरचितं श्रमणतामेति ॥ (४१) । (वैश्रवणः कुबेरः । श्रमणतां बौद्धभिक्षुभावम् ।) " इत्येवं बहुहृदया बहुजिह्वा बहुकराश्च बहुमायाः। तत्त्वेन सत्यरहिताः को जानाति स्फुटं वेश्याः ॥” (४।३९), तथा " वेश्यालता सरागं पूर्व, तदनु प्रलीनतनुरागम् । पश्चादपगतरागं, पल्लवमिव दर्शयन्ति निजचरितम् ॥ " (८.१२६) इति समयमातृकायां, तथा “ माराहवातिकुशलां, विटमोहदात्री, नेत्रान्तपूरितमहागरलां लताङ्गीम् । आपीनसान्द्रलिकुचप्रतिमस्तनी तां वाराङ्गनामसृजदब्जभवो धरित्र्याम् ॥ (१) । दुर्नीतिदुष्टगुणपूरितकोमलांगी . आयुर्बलासुधनमानविनाशहेतुम् । संनद्धवंचनचटूक्तिपटुं मनोशां...इत्यादिभिः कस्मिंश्चिद्वेश्यास्तोत्रे वर्णिताः; एतादृश्य: अर्थशंगारपराः सामान्या वनिताः याः वारस्त्रियः रूपाजीवाः भंडहासिन्यः पण्यांगनाः भोग्याः भोगिन्यः स्मरवीथिकाः पुरमंडनाः हट्टविलासिन्यः इत्यादिभिः प्रधानगुणद्योतकै: बहुनामभिः प्रसिद्धाः ॥ तथा धूर्ताः वंचकाः विटा: वा । तथा कुट्टन्यः पुरुषेण सह परस्त्रीयोगस्य संपादिकाः । एभिः सर्वैः कपटपंडितैः अपहरणपरायणैः, नो न, वंच्यते विडंब्यते विप्रलभ्यते वा ॥ प्रहसनेषु वेश्याकुट्टनीविटधूर्तानां वृत्तं त्याज्यतया व्युत्पाद्यते, अत्र तु भाणेष्विव तेषामेव परस्य वंचनपरं वृत्तं श्रोतणामवंचनीयत्वबोधाय वर्णितमिति बोध्यम् ॥ इतिशब्दः काव्यसमाप्तिद्योतकः ।।-अनया अस्य काव्यकृतेः वंचकविशेषवर्गात् लोकस्य परिरक्षणफलकथनेन वेश्याविलासजालस्य अर्थशंगारस्य च त्याज्यतया व्युत्पादनेन एतत्कर्तुः स्वस्य पुण्यं, पाठकानां च कप. टयंत्रवेश्यापरिवर्तनोत्याद्यद्वयपुरुषार्थभ्रंशनिरोधकत्वात् श्रेयःप्राप्तिः, 'दृष्टसुखार्थी हि बाहुल्येन लोकः' इति सर्वजनाभिलषणीयौ अर्यकामाख्यो पुरुषार्थों अधिकृत्य प्रकृतकाव्यरचनप्रवृत्तिश्च सूचिता ॥ अपि च, अनेन ग्रंथरत्नेन महामतिना कविना " काव्यं यशसेऽर्यकृते, व्यवहारविदे, शिवेतरक्षतये । सबः परनिर्वृतये, कान्तासंमिततयोपदेशयुजे ॥” (११२) इति काव्यप्रकाशोक्तानां षण्णामेव ऐहिकफलानां सिद्धिः साधिता । तथाहि अन्यकाव्यविषयादिविलक्षणतया विषयत्वेन वैशिकं नायिकात्वेन च सामान्या अधिकृत्य तल्लीलादिपरालंकारादिशोभमानरसवस्काव्यरचनेन यशः, एतद्रचनादूर्व राजमंत्रिपदप्राप्त्या धनागमः, वेश्यादीनां अर्थाहरणोपायभूतनानाविध. कूटाचारादिनिरूपणेन लोकव्यवहारवेदित्वं, तासामेव समूलार्थनाशहेतुभूतानां हेयतया व्युत्पादनेतानर्यनिवारणं, गुणालंकाररसौचित्यादिभिः 'काव्यपाठादिसमनन्तरमेव विचि. त्रार्थरसभावचमत्कारप्रादुर्भावेन अनिर्वचनीयसर्वातिशायिविलक्षणानंदजनकत्वं, एतद्द्वारा च वेश्यासेवननिंदाध्वननात् पाठकानां कान्ताकान्तवचनतुलितसुधामयवचनेन उपदेशदातृत्वं चेति ॥ अपि च कवेः सदुपदेशदानरूपपरोपकारजनितं पुण्यं पारलौ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy