________________
दामोदरगुप्तविरचितं इति शून्यीकृतवेश्मनि हरति शनैः सहजमंशुकं तस्मिन् ।
दर्शितसाध्वसलज्जा जगाद मे किं करोषीति ॥ १०५४ ॥ नारीभेदजिह्वासु योषिति । " इति विश्व:, अशक्ति चुंबनादिषु सुरते वा असहनत्वं, प्रथयति वचनादिभिः प्रकाशयति, यथा-" मामा मानद माऽति मामलमिति क्षामाक्षरोल्लापिनी।" ( अमरुकशतके ४०) इति, ( मां इत्यत: पीडय इत्यध्याहारः) तावत्तावत् तथातथा इत्यर्थः, पुंसां पुरुषाणां नायकानां, उत्साहः कार्ये स्थिरः संरंभः "कार्यारंभेषु संरंभः स्थेयानुत्साह इष्यते ।" (४८) इति कर्णभूषणे लक्षितः, (कार्यारंभेषु इति यावत्कार्यफलमित्यस्य उपलक्षणम् । ) प्रकृते बाह्याभ्यंतरे द्विविधे अपि सुरते उत्साहः इत्यर्थः, ] 'पल्लवाः नानाप्रकाराः इत्यर्थः' [इति टिप्पणी, पल्लवान् शृंगारान् तद्विलासान् इति यावत्, " पल्लवो विस्तरे खङ्गे शृंगा. रेऽलक्तरागयोः । चलेऽप्यत्री तु किसले, विटपेऽपि च पल्लवः ॥” इति विश्वलोचनः, समुस्सजति उत्पादयति, हि इति अव्ययं निश्चयायें ॥ सुरते रमण्या असहिष्णुतादर्शक: कुट्टमितकिलकिंचिताख्यभावैः चतुरनायकसंरंभः समुल्लासं प्राप्नोति तस्मात् तदशक्तिप्रथने ग्रामीणवत् विरमः नागराणां नोचितः इति प्रसिद्धम् ॥ तथाहि-"रतकलां कलयत्यसुवल्लभे किमपि कुंचिमुखी सुमुखी नवा । हहननेति ममेति वचोमिषान्मदनदीपनमंत्रमिवास्मरत् ॥" ( हम्मीरमहाकाव्ये ७१११) इति । उपदिष्टं च विकटनितंबया-" बाला तन्वी मृदुरियमिति त्यज्यतामत्र शंका, कांचिदृष्ट्वा भ्रमरभरतो मंजरी भज्यमानाम् । तस्मादेषा रहसि भवता निर्दयं पीडनीया, मंदाक्रान्ता विसृजति रसं नेक्षुयष्टिः समग्रम् ॥” इति ( 'बाला. मृदुतनुरिति० शंका, लोके मत्तभ्रमरपतनान्मञ्जरी किन्नु भया । मंदा० वितरति०, तस्मा० मर्दनीया ॥' इति अन्यत्र पाठः।) तथा-" कविता वनिता गीतिः प्रायो नादौ रसप्रदाः । उद्गिरन्ति रसोद्रेकं गाह्यमानाः पुन:पुनः ॥"...(हमीरमहाकाव्ये १४।३७) इति; एवंकृते " स्वप्नेष्वपि न दृश्यन्ते ते भावास्ते च विभ्रमाः । सुरतव्यवहारेषु ये स्सुस्तत्क्षणकल्पिताः ॥" (कामसूत्रे८।२।१।३१ ) ते समुद्भवंति । इदमेव सुरततरोः पल्लविता ॥ १०५३ ॥ इतीति । इतिशब्द: हेतो, शून्यीकृतवेश्मनि सखीनिर्गमनेन विजनीभूते गृहे गृहैकदेशे रतावासे इत्यर्थः, तस्मिन् नायके समरभटे, तस्याः, सहज सहजातं अंशुकं वनं लजां व्रीडां इत्यर्थः, ययोक्तं-" स्फुटमभिभूषयति स्त्रियस्वपैव ।" (माघ० ७।३८ ) इति, तथा अमरुकेण-" सहजव्रीडाधनः स्त्रीजनः ।" (८९) इति; ब्रीडा च-" व्रीडा धाष्टाभावस्तमुन्नयेत् । साचीकृतांगावरणवैवाधोमुखादिभिः ॥" (४१२४ ) इति दशरूपके; तेन उत्तररामचरिते (१।३९)-" कालेनावरणात्ययात्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com