________________
कुट्टनीमतम् ।
यावद्यावदशक्ति प्रथयति ललना हि मोहनाक्रान्ता | तावत्तावत्पुंसामुत्साहः पल्लवान् समुत्सृजति ।। १०५३ ॥
४३९
पुरोवर्तिनी मंजरी, नृत्यश्रांता नृत्यकरणेन खेदं आपन्ना शिथिलतनुः इति भावः । तत्रापि मदनेन कामेन आयासिता खेदं प्रापिता त्वद्विरहपीडया इति भावः । तथा च प्रकृत्यैव अतिसुकुमारा सौकुमार्याख्यशरीरगुणातिशयवती मृद्वंगी सुकोमलाङ्गी, सौकुमार्य तु - " यत्स्पर्शासहताऽङ्गेषु कोमलस्यापि वस्तुन: । तत्सौकुमार्य, त्रेधा स्यान्मुख्यमध्याधमक्रमात् ॥ अंगं पुष्पादिसंस्पर्शासहं येन तदुत्तमम् । न सहेत करस्पर्श येनाङ्गं मध्यमं हि तत् ॥ येनाङ्गमातपादीनामसहं तदिहाधमम् ॥” ( रसार्णवसुधाकरे १।१८४-१८६ ) इति । प्रकृते अतिना उत्तमत्वं ध्वनितम् । अत्र च आद्यद्वयविशेषणेन आंगतुकं तृतीयेन च स्थायि सहजं सौकुमार्य उक्तम् ॥ त्वं अपि अपिः निश्चये, “ आक्षेपेच्छानिश्चयेषु वाक्यादिप्रतिवाक्ययोः । गर्हासमुच्चयप्रश्नशंकासंभावनास्वपि ॥” इति मंखकोश:, रतिंसमरे सुरतरूपयुद्धे, यथोक्तं- “श्रोणीचारुरथं, पयोधरहयं, भ्रूकार्मुकं, दृक्शरं, पीनोरुद्वयमंगरागकवचं, ताम्राधरोष्ठध्वजम् । कांचीनूपुरशंखदुंदुभिरवं, हक्काप्रणादाकुलं कामिन्या नखदंतशस्त्रमतुलं प्राप्नोतु युद्धं भवान् ॥” इति; द्रौपदीपरिणयचंप्वां च उपमा - " आश्लिष्टकंठमन्योन्यं निरंतरनखक्षति । बभौ तयोः सघर्माभो नियुद्धं स्मरयुद्धवत् || ” ( ११४४ ) इति । ( तयोः भीमबकासुरयोः, नियुद्धं बाहुयुद्धं ' कुस्ती ' इति भाषायाम् ।) शूरः वीरः; रतिप्रियः इति यावत् । अनेन अतिवीर्यवान् प्रगल्भो वा इति व्यंजितं, अतः सा सुरतकाले निर्दयं नो मर्दनीया इति प्रार्थनं सूचितं, एतेनेदमाह सखी - सुकुमारावयवा सा, भवान् पुनः सुरतवीरः, तेन यथा इयं नोद्विजते तथा रंस्यसे, अन्यथा विरक्ता भविष्यतीति ॥ अत्र वक्रभणितिव्यंजनेन विपरीतलक्षणया निःशेषरसाकृष्टये यथेष्टं इयं मतां इत्यपि भावः स्फुरति ॥ एवं प्रार्थयित्वा आशिषं प्रयुक्ते स्वर्गेति । स्वर्ग: भूः स्थानं वासस्य येषां ते ] स्वर्गभुव: देवता:, [वः कुशलाय कल्याणाय, सन्तु, ते युवयोः क्षेमं कुर्वन्तु युवाभ्यां भद्रं ददतु इत्यर्थः ॥ इदं शुभाशंसनं प्रकृत काव्योपसंहार भागान्तर्गतं सत् " " मंगलादीनि मंगलमध्यानि मंगलान्तानि शास्त्राणि प्रथन्ते । इति नयानुकूलं अभि बोध्यम् || आशीराख्यः नाट्यालंकारः अत्र ॥ १०५२ ॥ सख्यपगमनान्तरं जातं वृत्तं युग्मेनाह यावदिति । यावद्यावत् यथायथा इत्यर्थः, वीप्सया प्रकारकात्यै अभिप्रेतं, मोहनेन सुरतेन तद्रसेन इति भाव:, आक्रान्ता अभिभूता, ललना लडति ललति कामेन विलासं करोति सा विलासवती कामिनी, ललना कामिनी
66
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com