________________
कुहनीमतम् ।
४३१ प्रमदमुपैति मयूरी परमं शन्देन वारिवाहस्य । अनिमिषविलोकितेन प्राप्नोति झषी कृतार्थतामेव ॥ १०३५ ।। न वृथास्तुतिमुखरतया न च युष्मल्लोभनाभियोगेन ।
विदधामि तद्गुणाख्यां स्वरूपमात्रप्रसङ्गेन ॥ १०३६ ॥ भावः। एवं लब्धौषधः तस्या रोग: उपशमं गमिष्यति इति अभिप्रायः । तदेव अन्येच्छानिरासेन द्रढयति आशीरिति । आशीः अन्यकर्तृकं शुभाशंसनं, तस्य विषयः गोचरः, तेन उपेते सर्वेषां आशीर्वादविषयभूते इत्यर्थः, संभोगसुखोदये संभोगेन सुरतेन यत् सुखं आनंद: तस्य उदये उद्गमे संभूतौ, सुरतसुखं अनुभवितुं इत्यर्थः, न तु तस्याः आकांक्षा स्पृहा, तुः पूर्वोक्तवैलक्षण्ये । यथोक्तं पूर्व-" स्थास्यामि संनियुक्ता भवद्गृहे प्रेष्यमावेन ।" (आ. ७३१) इति । इयं कूटोक्तिः " सूचीप्रवेशे मुसलप्रवेश: " इति न्यायेन भिक्षुपादप्रसरणन्यायेन वा प्रथम स्थानमा लब्ध्वा भविष्ये पादप्रसारिकां कर्तुं इति बोध्यम् ॥ १०३४ ॥ उक्तं दृष्टान्ताभ्यां अवष्टंभयति प्रमदेति । मयूरी-मह्यां रौति शब्दायते इति मयूरः, तस्य स्त्री मयूरी, 'ढेल' इति भाषायां प्रसिद्धा; सा, वारिवाहस्य मेघस्य, शब्देन स्तनितेन, परमं सातिशयं, प्रमदं हर्ष, “प्रमदा तरुणी, ना तु हर्षेऽधिकमदे त्रिषु।"इति मंखकोशः, उपैति प्राप्नोति, यथोक्तं-"स्तनियत्नोमयूरीव चकितोत्कण्ठिता स्थिता ।" (उत्तररामचरिते ३१८) इति । तथा झषी मत्सी, अनिमिषविलोकितेन प्रियमुद्दिश्य निष्पंददृष्टिविशेषेण, कृतार्थतां कृतकृत्यतां परमां तृप्ति इति यावत् , प्राप्नोति, मत्स्यानां निर्निमेषचक्षुष्ट्वं प्रसिद्धं, यथोक्तं पूर्वमनेनैव कविना “ अनिमेषं पश्यंती मत्स्यवधूमनुचकार सा तन्वी ।" (आ. २७१) इति । मयूरीवत् तव शब्दश्रवणमात्रेण मत्सीवत् च तव निनिमेषदर्शनेनैव दूरादेव सा प्रमोदं प्राप्स्यति, न तु तदधिके त्वत्स्पर्शादौ तस्याः लालसा इति भावः । पूर्वार्यासंबंधेन अत्र दृष्टान्तालंकारः, केवलस्थितौ न कोऽपि, वस्तुस्थितिकथनात् ॥ १०३५ ॥ एवं तस्याः दुःस्थितिवर्णनेन ( आ. ९९१-१०३०) तस्य करुणावृत्तिं उत्पाद्य, तस्य च परोपकारशीलत्वसूचनेन (आ. १०३१-१०३२) अनुग्रहवृत्ति उत्तेजयित्वा, अभिलाषवृत्तिं वर्धयितुं तस्याः रूपवर्णने अन्यथोक्त्या पदं निधत्ते नेति। अहं इदानीं तस्या गुणानां वक्ष्यमाणानां अनितरसाधारणानां इति भावः, आख्यां कथनं, विदधामि करोमि । तत्कारणे अन्यान्य
१०३५ प्राप्तेन (प. स्तं)। ऋषी (गो) [अत्र 'स' अक्षरं भ्रमात् 'क' इति वाचयित्वा अर्थलापनाथै 'ऋषिः' इति कल्पितः पाठः गो. पुस्तके ] कृषी (स्तं)। १०१६ न मृषास्तुति (स्तं)। लोभतामि (१) । स्वरूपमात्रं प्रसंगतो पच्मि (स्तं)।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com