________________
४३२
दामोदरगुप्तविरचितं
सद्भावबद्धमूले स्मितदृष्टिभ्रूविलासपल्लविते । सेवन्ते हृद्यरसां रागतरोर्मञ्जरीं धन्याः || १०३७ ॥ तिष्ठतु तदङ्गसङ्गो विलोकिता येन झटिति वरगात्री । तस्यान्यो युवतिजनः प्रतिभाति मनुष्यरूपेण ॥। १०३८ ॥
वितर्क आदावेव निषेधमुखेन निरस्यति नेति । सेवकादिवत् स्वामिन: अविद्यमानगुणारोपणैः मिथ्याप्रशंसायां वावदूकतया न, नापि दूतीवत् युष्मद्रागं उत्तेजयित्वा कंचित्स्वार्थ साधयितुं च इति भावः । तत्र हेतुं प्रकाशयति स्वेति, यस्या: अहं दूती तस्याः स्वभावादेः निरूपणं अपरिचये सति प्रथमयोगे प्रसक्तं इति कारणेनैव तद्गुणाख्यानं करोमि इति भावः । इयं कपटोक्तिः ॥ १०३६ ॥ सद्भावेत्यादिभिः चतुर्भिः तद्गुणाख्यानं करोति, तच्चित्तभेदनाय । इदं च पादसंप्रसारणं तस्य अनुरागातिशयजननेन स्वायत्तता संपादनार्थं बोध्यम् । सद्भावः शोभनः चित्तविकारः रतिः इति यावत्, तेन बद्धमूले मूलत्वेन दृढीभूते सति, स्थिरीकृते इति वा; तथा स्मितं दृष्टिः अवलो - कनं सस्नेहं इत्यर्थः, भ्रूविलासा: भ्रुवः समुल्लासा: ललिताः क्रियाः च तैः, पल्लवितें किसलयिते वर्धिते वा सति; रागः ' चित्तानुरञ्जकस्नेहप्रकर्ष: ' " स एष चेद्गुणद्रव्यदेशकालादिभिर्हृदि । रज्यते दीप्यते चित्ते स राग इति कथ्यते ॥ " इति लक्षणलक्षित:, ( स: एषः प्रौढस्नेहः । ), स एव तरुः 'पुष्पफलवान्' वृक्षः, तस्य, हृद्यरसां हृद्य: हृदयंगंम: मधुर: रसः द्रवः शृंगारादिरसश्च यस्याः तां सुधास्वादां, मंजरीं “नवपुष्पाढ्यशाखाग्रे वल्लरी मंजरी तथा । " इति राजनिघंटौ, या पृथक्पुष्पभेदप्रतिभासेऽपि एकाकारेण अनुभूयते तां, अनुस्वानशक्त्या च उक्तरीत्या अनुगुणनामघारिणीं मंजरीं तन्नाम्नीं गणिकां, धन्याः पुण्यवंतः, सेवंते भोगविषयं कुर्वेति । प्रकृतार्थविषये किंचिद्भेदेन उक्तं - " इयमंकुरिता प्रेम्णा, मानात् पल्लविता भवेत् । सकोरका प्रणयतः, स्नेहात्कुसुमिता भवेत् । रागात्फलवती सेयमनुरागेण भुज्यते ॥ " इति । ( इ रतिलता । ) प्रकृतार्यायां फलं अनुक्त्वा मंजरीत्युक्त्या तस्या: अभुक्तं प्रथमयौवनं ध्वन्यते ॥ सावयवरूपकं अलंकार:, तेन धन्यानां कामुकानां मधुकरत्वं अवसीयते, मंजरीपदेन नायिकानाममुद्रणात् मुद्रालंकारः, हृद्यरसां मंजरीं इत्यत्र पद-लेषः, धन्याः इत्यनेन अन्येषां निरासेन परिसंख्यालंकारो व्यंग्यश्च; अत्र प्रस्तुते विशेषे तत्सदृशस्य अप्रस्तुतस्य उक्तेः अन्योक्तिश्च तेन रसमयी मंजरी तु स्वयमेव त्वद्दास्यं प्रार्थयते इति सा अवश्यं स्वीकार्या इति सूचितम् ॥१०३७॥ तद्दर्शनमात्रेण जायमानां अन्येषां अव१०३७ भ्रूविकार ( प. स्तं. गो२ ) । मंजरी धन्या ( स्तं ) १०३८ झगिति प. स्तं. गो२ )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com