________________
दामोदरगुप्तविरचितं प्रायेण यनिदानं तत्सेवनमुपशमाय रोगाणाम् । स्मरमान्धं तु यदुत्थं तदेव खलु भेषजं यतस्तस्य ।। १०३३ ॥ तेन स्पृहयति सुतनुस्त्वत्पादसरोजरेणुसङ्गतये । आशीविषयोपेते संभोगसुखोदये तु नाकाला ।। १०३४ ॥
(सन्दानितकम् ) अर्थान्तरन्यासालंकारः ॥१०३२॥ नायकं सम्यक् आवर्ण्य युग्मेन प्रस्तुतं कार्य स्पष्टतया निवेदयति प्रायेणेत्यादिना । प्रायेण बाहुल्येन, " प्राय: पुमाननशने मृत्युबाहुल्ययोस्तथा ।" इति विश्वलोचनः, रोगाणां यत् निदानं आदिकारणं, तस्यैव सेवनं सेवा उपचारः, तेषां रोगाणां उपशमाय शान्त्यै भवति, “विषस्य विषमौषधम् । " " उष्णमुष्णेन शाम्यति ।" इत्यादिन्यायेम्यः । यतः प्रसिद्धमिदं यत् इत्यर्थः; स्मरमान्धं कामजनिता जडता, मन्मथव्यथालक्षणो व्याधिः, तुशब्दः पादपूरणे, यदुत्थं यस्मात् कारणात् पुरुषविशेषात् उत्थं जातं, तदेव तत्कारणं स पुरुषविशेष एव, खलुशब्दस्य निश्चयेन इत्यर्थः, भेषजं औषधं रोगदूरीकरणकारणं, तस्य स्मरमान्द्यरूपरोगस्य । यथोक्तं दशकुमारचरिते पूर्वपीठिकायां (उ० ५) "लावण्यजितमारो राजकुमार एव अगदंकारो मन्मथज्वरापहरणे।" इति, (अगदंकारः भिषग्।), तथा एवमेव नायिकामुद्दिश्य अभिज्ञानशाकुंतले (३३१२) किंचिद्भेदेन दुष्यन्तोक्ति:-"स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः । दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य ॥” इति। तथा "कान्ता ददाति मदनं, मदनः संतापमसममनुपशमम् । संतापो मरणमहो, तथापि शरणं नृणां सैव ॥" (७।६६) इति काव्यालंकारे । एतद्विपर्ययेणापि तत्रैव (९४७)-" आनंदममंदमिमं कुवलयलोचने ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥" इति ॥ अत्र मूले पूर्वदलगतस्य सामान्यस्य उत्तरदलस्थविशेषेण समर्थनात् अर्थान्तरन्यासालंकारः, यदेव स्मरमान्धकरं तदेव तद्विरुद्धं मान्द्यनाशकं इति विरूपकार्योत्पत्तिकथनात् विषमालंकारश्च ॥ १०३३ ॥ तेनेति । तेन यतः एवं तस्मात् इत्यर्थः, सुक्नु: " कार्यकारणयोरभेदेन तनुपदेन तन्ववयवा उच्यते, तथा च शोभना तनुः तन्ववयवाः यस्याः" (नारायणकृतविद्धशाल. टीकायां २।४.) सा सुतनुः अंगना सा मंजरी, तव चरणकमलयोः रेणवः रजांसि तेषां संगतये समासमाय, स्पृहयति इच्छां धारयति; सततं त्वद्दर्शनमात्रप्राप्तये तव दासकर्म अपि स्वीकत इच्छति इति १०३३ तदसेवन (प.स्त) १०३४ पादयुगाकरेणु (गो) मलतिरहितः पाठः]। आसीविषयामेते (स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com