________________
कुटनीमतम् ।
४२३
दूरे कदळीदण्डा ऊोरपि न सहते समाश्लेषम् । करसम्पर्काद्विमुखी विश्राम्यति पल्लवेष्विति विरुद्धम् ॥१०२१॥ 'अयि मञ्जरि, सैव त्वं, विदग्धजनमण्डिता पुरी सैव । कुसुमायुधः स एव, व्यसनं कुत एतदायातम् ॥ १०२२॥
प्रतिबिंबं वदनं, ते किं मुखस्य शशी ।" (काव्यालंकारे ८।६६) इत्युक्त्यनुसारेण; सा शशिनं चन्द्रं द्रष्टुं, कुतः इति प्रभे कथं इत्यर्थः, उत्सहेत इति शेषः, तस्य विरहिणां संतापकत्वात् इति भावः । अपि च सा व्यथिता विरहेण पीडिता, भुजौ बाहू, सर्वतः शयने सर्वेषु स्थलेषु, क्षिपति, स्वस्थतया न एकत्र स्थापयति, तस्याः, का संकथा किमु वाच्यं इत्यर्थः, मृणाले जातावेकवचनं; तत्संतापापनोदाय शय्यायां स्थापितेषु मुणालेषु पद्मनालस्थतन्तुषु सा भुजौ क्षणमपि स्थापयिष्यति इति कुतः संभावना इति भावः । अनेन मनसो व्यग्रतातिशय: सूचितः । कैमुतिकन्यायेन अर्थसिद्धेः काव्यार्थापत्तिरलंकारः ॥ १०२० ॥ दूर इति । सा स्वस्याः ऊर्वोः, अपिः समुच्चये, समाश्लेषं संसर्ग, न सहते; एवं सति दूरे कदलीदंडा:-कथं सा तापशांत्यै निहितानां कदलीस्तंभखंडानां स्पर्श सहेत इति भावः; कदली ' केल ' इति भाषायां ख्यातः वृक्षविशेषः । ऊर्वोः कदलीस्तंभोपमितत्वात् तस्य च शीतवीर्यत्वात् अत्र कदलीग्रहणं इति बोध्यम् । एवं च स्वकरयोः परस्परं संपर्कात् स्पर्शनात् पराङ्मुखी, तापाधिक्येन अशक्त्या वा तदसहत्वात् , सा, पल्लवेषु कोमलकिसलयेषु आस्तरणभूतेषु, विश्राम्यति विरामं लभते, इति वचनं विरुद्धमेव । 'पल्लवेषु इति तेषां करतुल्यत्वात् तत्र शयनमयुक्तमित्यर्थः', [इति टिप्पणी । स्वकीयावयवस्पर्शोऽपि यस्या दुःसहः तस्याः स्वभावकोमलानि अंगानि विरहतापदूनानि अपरपदार्थस्पर्श सोढुं कथं शक्नुयुः इति भावः । प्रवालतल्पे शफरीव स्थले सा परिस्फुरति इत्यभिप्रायः । पूर्ववत् काव्यापत्ति: अलंकारः । व्याधिलक्षणं तु-" विरहादेर्मनस्तापो व्याधिर्मुखशोषादिकृत् । ” इति काव्यानुशासने । (आदिना सस्तांगतागात्रविक्षेपादयः समुच्चिताः।) ॥ १०२१॥ इत: अष्टकेन सख्याः मंजरी प्रति तां भिन्नरहस्यां कर्तुं अनुतापोक्तिः । अयि इति कोमलामंत्रणे, मंजरि इति नामग्रहणपूर्वकसंबोधनेन स्निग्धत्वं विखंभोचितत्वं वक्ष्यमाणे च अवघानदानाय प्रार्थनं सूच्यते । सैवं त्वं न कोऽपि व्यक्तिभेदः न वा ते जन्मान्तरं इति भावः । चतुरनरैः भूषिता इयं नगरी अपि सैव, नापि ते स्थानान्तरं जातं इति भावः । कुसुमायुधः मदनोऽपि स एव, कुसुमायुधः स एव इत्यनेन सांप्रतं अपि तस्य प्रहरणानि मृदूनि कुसुमान्येव, न तु जीवहराणि लोहप्रस्तरा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com