SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ दामोदरगुप्तविरचितं वक्ष्यामि सापराधं क्रोधस्फुरदधरमश्चितभ्रूकम् । इति विदधाति सुमध्या हृदयेन मनोरथावृत्तिम् ॥ १०१९ ॥ (सन्दानितकम् ) उत्सहते न द्रष्टुं प्रतिबिम्बितमाननं, कुतः शशिनम् । का संकथा मृणाले क्षिपति भुजौ सर्वतो व्यथिता ॥ १०२० ॥ चेष्टश्च कुटिलोऽसौ शठो-यथा ॥” (११२७ ) इति शंगारतिलके । निर्लजेति शठेति च संबोधने क्रोधप्रकाशके, यथोक्तं भरतेन-" दुःशीलोड्य दुराचारः शठो वामो विकत्थनः । निर्लजो निष्ठुरश्चेति प्रियं क्रोधेऽभिनिर्दिशेत् ॥ " ( २२।२८७) इति ॥ तथाच शृंगारतिलकाख्यलघुकाव्ये-" किंकि वक्त्रमुपेत्य चुंबसि बलान्निर्लज लजा क ('न) ते, वस्त्रान्तं शठ मुंचमुच, शपयैः किं धूर्त वाग्बन्धनैः । खिन्नाऽहं तव रात्रिजागरवशात्तामेव याहि प्रियां, निर्माल्योज्झितपुष्पदामनिकरे का षट्पदानां रतिः॥" (१०) इति । (अत्र पाठभेदाः काव्यानुशासने-" घिङमां किं समुपेत्य० धूर्त निर्बाधसे । • जागरतया तामेव याच० " इति ।) (वाग्बंधनैः वाक्यरचनैः।) एवंवादिनी नायिका मध्या धीरा, तया च शृंगारतिलके-" सा धीरा वक्ति वक्रोक्त्या प्रियं कोपात्कृतागसम् । " (२४१) इति, ( सा आरूढयौवना प्रगल्भवचना मध्यासंशिता । ) ॥ १०१८ ॥ एवं, सापराधं अन्यासंगेन कृतविप्रियं, तं मां अनुनयंत, वक्ष्यामि, कथमिति क्रोधेत्यादिम्यां द्वाभ्यां क्रियाविशेषणाम्या आह, कोपेन स्पंदमान: ओष्ठः यथा स्यात् तथा, तथा अंचितौ भ्रुवौ यया स्यात् तथा, प्रवेपमानाधरं निकुंचितभूलतं च । इदं द्वयं कोपस्फुरणानुभावः । इतिशब्दस्य सार्घायां आर्यायां उक्तप्रकारेण इत्यर्थः । सुमध्या सुश्रोणिः, मध्याशब्देन च तस्याः मध्यानायिकाभावः सूच्यते, हृदयेन, मनोरथानां संकल्पानां, आवृत्तिं अभ्यासं परिवर्तनं, विद. धाति कुरुते; तथाहि कर्पूरमंजरीसट्टके विदूषकोक्तेः (३) छाया-" भ्रष्टः ठकुरः, क्षुघाक्रान्तो ब्राह्मणः, अविनीतहृदया बालरण्डा, विरहितश्च मानुषो, मनोरथमोदकै. रात्मानं विडंबयति ॥ " इति । (ठक्कुरः कतिपयग्रामाधिपतिः, न तु राजा । रण्डा विधवा । विरहितः विरहयुक्तः । ) ॥ १०१९ ॥ (संदानितकं युग्मम् । ) द्वाभ्यां तस्याः व्याध्याख्या अष्टमी स्मरदां वर्णयति उत्सहते इत्यादिम्याम् । सा, दर्पणादिषु प्रतिबिंबितं प्रतिफलितं आननं मुखं, स्वस्य इति भावः, द्रष्टुं निरीक्षितुं, न उत्सहते न शक्नोति, तस्य चंद्रभ्रांत्या संतापकारित्वात् इति भावः, " किं शशिनः १०१९ मनोरयावृत्तिः (स्तं) १०२० न च द्रष्टुं (प. स्तं )[ अधिकमात्रः पाठः ] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy