SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम्। मुक्तान्यसमारम्भा वरतनुरनुपप्लुतेन चित्तेन । जपति समीहितसिद्धयै त्वद्द्वादशनामकं महास्तोत्रम्॥१०१७॥ तामेव गच्छ यस्यामासज्य विलम्बितोऽसि गतलज्ज । वेलामियतीमलमलमेतैरधुना शठानुनयः ॥ १०१८॥ अभीष्टामिश्च शोभाभिर्जीवितेश इतीरितः ॥” इति तत्रैव ॥ केलिकरणनिपुण:-केलीनां क्रीडापरीहासादीनां करणे निष्पादने निपुणः नागरः, विशेषेण तु दाक्षिण्यसहितसंभोगसुखसिद्धिमान् ॥ इतिशब्द: समाप्तौ ॥ अभेदो बोध्यः यत् एक एव प्रियः तत्तद्गुणवैशिष्टयात् भिन्नबुद्धिविषय: यथा दंडिकुंडलीत्यादिः-इत्यभिप्रायेण नामावलिः॥१०१६ ॥ मुक्तेति । रागदिग्धहृदया सा, मुक्तान्यसमारंभा व्रतिनी इव त्यक्तापरोद्योगा, वरतनुः शोभनाङ्गवती, अनुपप्लुतेन प्रत्ययान्तरैः अविक्षिप्तेन, चित्तेन मनसा, समीहितसिद्धयै त्वद्रूपस्य इष्टस्य संप्राप्त्य, त्वद्वादशनामकं तव द्वादशसंख्याकानि नामानि यत्र तादृशं, महास्तोत्रं महास्तवं, निश्चितफलदायकत्वात् महदिति विशेषणं, जपति दीर्घकालं आवृत्त्या पठति । " यदि देवताया अष्टौ दश द्वादश नामानि पठ्यन्ते तदा सा प्रसन्ना भवति । ” इति मृच्छकटिकटीकायां (१।२३) पृथ्वीधरः । यथा कश्चित् फलविशेष प्राप्तुकामः तत्फलदातुः देवताविशेषस्य उपासने तत्प्रसादनाय तन्नामस्तोत्रं ऐकायेण बहुवारं पठति तथा इयं पूर्वार्यागतं त्वन्नामस्तोत्रं जपति इति भावः । अनेन त्वमेव तस्याः उपास्यदेवता इति ध्वनितम् ॥ अत्र तत्प्राप्त्याशया जपकरणेन चिंता, तदेकाग्रमानसत्वेन स्मृतिः, तन्नामावलिजपेन गुणकीर्तन, इति नानावस्थानां संकरः सूचितः ॥ १०१७ ॥ युग्मेन तस्याः संकल्पावस्थागतं एक प्रकारं वाचिकं उन्मादं प्रकटयति तामित्यादिना । कृतागसि कांते प्राते कुपिता एवं वक्ष्यामि इति संकल्पः । तद्वचनप्रकारमाह तामिति । तामेव तव प्रिया प्रति गमनं कुरु, यस्यां आसक्तो भूत्वा, मत्समीपं आगमने त्वं एतावंतं विलंबं कृतवान् इत्यर्थः। अतः अन्यासक्तिगोपनाशक्तत्वात् गतलज इति संबोधनं, निम्रप इत्यर्थः । तस्य लक्षणं भावप्रकाशे-" परुषैरवमानश्च वार्यमाणो मुहुर्मुहुः । सापराधोऽपि यो गच्छेत् स निर्लज इतीरितः ॥” इति । अधुना सांप्रतं, एतैः मत्समीपं क्रियमाणैः, भनुनयैः प्रसादनाय चाटुचरणपातादिभिः सान्त्वनकर्मभिः, अलं पर्याप्तं, वीप्सायां द्विरुक्तिः, विरम एतेभ्यः मिथ्याप्रत्ययकारिभ्यः प्रयत्नेभ्यः इति भावः । हे शठ परवंचक कितव, शठश्च-" प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् । ज्ञातापराध १०१८ गतलज्जः (स्तं) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy