SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ४१६ दामोदरगुप्तविरचितं विज्ञानार्जितदर्पो निभृतं हसितः समानशिल्पाभिः । त्वयि सक्तदृशः सख्या विसंष्टुले नाट्यनिर्माणे ॥ १००८ ॥ अवधीर्याऽऽचार्यरुषं भरतोदितदोषकरणसंभूताम् । विस्तारितः प्रयोगस्त्वदवस्थितिवाञ्छया तन्व्या ॥ १००९ ॥ भनेऽपि प्रेक्षणके तदनन्तरभूमिकाश्रयावस्थाः। गृह एव निरवसानं वितनोति न नाट्यधर्मेण ॥ १०१० ॥ एवं प्रस्तूय तस्याः मोहं अवगमयितुं नाट्यकालीनं इतिवृत्तं विज्ञानेति द्वाभ्यां प्रकाशयति । त्वयि राजपुत्रे, सक्तदृश: लग्ननेत्रायाः, अनेन स्तिमितं नाम शंगारदृष्टिविकार: अनुलक्षित: “ स्वगोचरान्न चाल्येत यत्तत् स्तिमितमुच्यते । " इति लक्षितः; सख्याः मंजर्याः, तत्कारणात् , ] विसंष्ठले अव्यवस्थिते असंगते, नाट्यनिर्माणे तत्तदवस्थानुकृतिकरणे, सतिसप्तमी इयं; तस्या: विज्ञानेन “ मोक्षे धीनिमन्यत्र विज्ञानं शिल्पशास्त्रयोः।" इति अमरोक्तभेदात् प्रकृते नाट्यकलाकौ. शलेन इत्यर्थः अर्जितः संप्राप्तः य: गर्व: सर्वाधिकत्वधी:, स:, समानं अभिन्नं शिल्पं कलादिकं कर्म प्रकृते नाट्यं यासां ताभिः नर्तकीभिः इत्यर्थः, निभृतं गूढं परैरलक्ष्यं यथा स्यात्तथा, हसित: हासविषयीकृतः तदीयाभिनयानां असंगत्वात् अस्थाने तस्याः गर्वः इति ॥ १००८ ॥ अपि च, भरतेन नाट्यशास्त्रस्य आद्यप्रवर्तकाचार्येण उदिताः कथिताः ये दोषाः सुचेयतासुगानत्वसुपाठ्यत्वशास्त्रकर्मसमायोगानां विपर्ययाः, तेषां करणेन निवृत्त्या संभूतां उत्पन्नां, आचार्यस्य तस्याः नर्तनोपाध्यायस्य रुषं कोपं, अवधीर्य अविगणय्य, तया तन्व्या सुकुमार्या, प्रयोगः नाट्ये अभिनयः, विस्तारित: कारणविशेषात् दोषाणां अपरिहार्यत्वेन प्रयोगसमाप्तिकरणस्य उचितत्वेऽपि तन्न कृत्वा प्रत्युत पल्लवितः । तत्र बीजमाह त्वदिति, तव अवस्थिते: अवस्थानस्य वाञ्छया अभिलाषेण, प्रयोगस्य असमाप्तिं यावत् त्वदवस्थानसंभवात् तस्य दीर्घकालव्याप्यत्वे तवापि मधुरं दर्शनं चिरं भूयात् इत्याशयेन इति भावः ॥ आभ्यां विप्रलंभस्य अभिलाषावस्था व्यंजिता ॥१००९ ॥ नायकागोचरं स्वगृहे जातं मंजर्याः स्मरदशामिभवप्रकाशकं वृत्तं एकविंशतिभिः आह भनेत्यादिभिः । प्रेक्षणके दृश्ये नाट्ये, भने जातसमाप्तौ विरते, अपि, तस्य प्रकृतस्य प्रथमांकस्य अनंतराः उत्तराः १०.८ विज्ञानार्पितद निभृतं हसितं (प. स्तं) १०१. प्रेक्षणिक (स्तं)। वस्था (प. स्तं)। निरवसानां (प. स्तं) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy