________________
कुट्टनीमतम् ।
अवहेलयेव भवता संस्पृष्टा येन वेत्रदण्डेन । जातः स एव तस्या अनन्यभवमागणः प्रथमः ॥ १००७॥
णात् , दुरात्मना पापेन दुष्टेन अबलानां विरहिणां च पीडाजनकत्वात् , तेन पापत्वात् नामाग्रहणयोग्येन मदनेन इत्यर्थः, तव दर्शनं दृग्गोचरीभवनं एव अवकाशं छिद्रं, संप्राप्य लब्ध्वा, साऽपि ' या हसति सरोजवतीं ' इत्यादिना कुलकेन वर्णिता सा तादृशी, इषुधारैः इषूणां संमोहनादिशराणां धारैः सतताभिवर्षणैः “धारस्तु धारासंपातवर्षणे स्यादृणेऽपि च ॥ इति विश्वलोचन:, ' इषुवारैः' इति पाठे इषूणां समूहैः इत्यर्थः, हंतुं प्रारब्धा स्वशराणां लक्ष्यीकृता । कीदृशेन मदनेन इत्याह चिरेति, चिरात् दीर्घकालात् संभृतः उपचितः अत एव तीक्ष्णः कोप: क्रोधः यस्य तेन; तथाहि “या हसति सरोजव ती' (आ. ९९६) इत्याद्यासु "रक्षसां पत्युः" (आ. १००४) इत्यंतासु नवस्वार्यासु वर्णितानि यानि कामदेवस्य अनादरसूचकानि मंजरीचेष्टितानि तैः उत्पन्नवैरत्वात् , तादृश्याः संमोहनादिरूपं यत् दुःसाध्यं कर्म तत् साधयितुं अद्यापि अलब्धच्छिद्रत्वात् च, वृद्धिंगतेन क्रोधेन इत्यभिप्रायः ॥ क्रोधश्च-" अप्रिये वस्तुनि श्रुते स्मृते दृष्टे च सति मनःक्षोभको यो द्वेषपरिपाकः सः क्रोधः ।" इत्युक्तलक्षणः ॥ “प्रतिकूलेषु तैक्ष्ण्यस्य प्रबोधः क्रोध उच्यते ।" इति च ॥ अत्र युग्मे प्रथमायां उक्तस्य साध्यस्य हेतोः द्वितीयायां कथनात् अनुमानालंकारः, सा च त्वदर्शनात् प्रभृति कामार्ता इति व्यंग्यस्य भंग्यतरेण कथनात् पर्यायोक्तं अलंकारः, उभयोश्चं संकरः ॥ १००६ ॥ भूतं संस्मार्य तस्मिन् मंजर्याः रागोद्भवं स्पष्टमाह अवेति । अवहेलया अनादरेण इव न तु वास्तवेन अनादरेण अपि तु स्नेहेन इति भावः, येन वेत्रदंडेन सा संस्पृष्टा, यथोक्तं पूर्व ( आ. ८१०), स एव वेत्रदंड:, तस्याः प्रथमः आद्यः मुख्यश्च इत्यपि शब्दशक्त्या ध्वन्यते, ] अनन्यभवस्य [ स्वयंभुवः ] कामस्य, [ मार्गणः बाणः, जात: अभूत् । तंव वेत्रदंडस्पर्श एव तस्या: कामोत्पादकः अभूत् इति भावः । अपि च अनुस्वानशक्त्या वेत्रदण्डस्पर्शः तस्याः प्रथमः त्वत्कामयाचक: अभूत् , तत्स्पर्शेनैव तया ज्ञातं यत् त्वं तस्याः कामाभिलाषीति इत्यपि अर्थः प्रतीयते । “मार्गणो याचके बाणे, क्लीबमन्वेषणयाब्जयोः ।" इति विश्वलोचनः । अनेन उभयोः अन्योन्यप्राप्तीच्छारूपायाः उत्कंठायाः उदयः व्यंजितः। तस्याः कामोत्पादे प्रसिद्धान् कामशरान् विहाय वेत्रदंडस्पर्शे एव तस्य निश्चित्या परिसंख्यालंकारः, स चात्र आर्थः॥१००७॥
१००७ अवहेलयैव (प. स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com