________________
दामोदरगुप्तविरचितं
हरति मनो नो हियते, रञ्जयति न रज्यते कदाचिदपि । गृह्णाति चित्रचरितैरुपकृतिभिह्यते न बहीभिः ॥ १००१ ॥ प्रेममयीवाभाति प्रेम तु नाम्नैव केवलं वेत्ति। कण्टकिता भवति रते रतभोगसुखं शृणोति लोकात्तु ॥१००२॥
निवेश:' इति । तस्याः पुरुषोत्तम इति भणितव्ये पुरूरवसीति निर्गता वाणी । " इति । (इयं कथा वेदे उषासूर्ययोः रूपकत्वेन सूक्ता इति केषांचित् नव्यविदुषां तर्कः ।) एवं दिव्या उर्वशी कामार्ता भूत्वा निकृष्टं अदिव्यं नायकं कामितवती इति सा मंजर्याः निन्दापात्रं इति भावः । अनया कामुकी अपि सा न निर्लजा न वा हीनानुरागिणी इति क्रमेण दलाभ्यां ध्वनितम् ॥ अत्र श्लेषरहितः पूर्ववत् अलंकारः॥१०००॥ इत: त्रिभिः रतिसागरप्रविष्टायाः मंजर्याः अभिलाषशंगारस्य उद्वेगावस्थां वर्णयति हरतीत्यादिभिः । या मन: हरति अन्येषां स्वसौंदर्येण इति भावः, अपि तु या नो हियते-विषयैः अन्यैः कामुकैः वा त्वयि लग्नमानसत्वात् इति भावः । एवं या रंजयति अन्येषां मनः स्ववाक्चातुर्यादिना इति भावः, अपि तु या कदाचिदपि कस्मिंश्चिदपि समये न रज्यते केनापि पुरुषादिना विषयेण वा रंजिता ( प्रसन्ना ) भवति-त्वदसमागमात् सर्वदा उद्विग्नचित्तत्वात् । तथा या चित्रचरितैः विचित्राचरण: सहजविलक्षणविलासैः अपरेषां मनः गृह्णाति वशीकुरुते इति भावः; अपि तु या बहीभिः अनेकाभि: उपकृतिभिः उपकारः अन्यकामुककृतैः तत्सेवार्थदानादिरूपैः इति भावः, न गृह्यते न स्वाधीना स्ववशा वा कर्तुं शक्यते इत्यर्थः ॥ अत्र कुवलयानंदे लक्षितलक्षणानुसारेण समुच्चयालंकारः, स च-"बहूनां युगपद्भावभाजां गुंफः समुच्चयः।" इति, ('युगपदिति क्रमव्यावृत्त्यर्थ न त्वेकक्षणप्रतिपत्त्यर्थम् ।' ) अत्र 'हरति मनो नो हियते' इत्यादिविरोधविशिष्टभंग्या स्वाभाविकरूपचातुर्यादिभिः सकललोकस्य चित्तादिहरणं यया क्रियते तस्याः एव चित्तादिहरणं केवलं त्वयैव कृतं इति व्यञ्जितम् ॥१००१॥ अपि च या अन्येषां, प्रेममयी विकारार्थे मयट् तेन मूर्तिमती प्रीतिः इत्यर्थः, इवशब्द: वस्तूत्प्रेक्षायां, आभाति शोभते, प्रेम पूर्व व्याख्यातं (३७९ आ. टी.), तु परंतु, प्रेम केवलं नाम्नैव अभिधानमात्रेणैव वेत्ति जानाति, न तु प्रेम अद्यापि तस्याः अनुभवारूढं इति भावः । रते लक्षणया रतवार्तायां प्रेमकथायां रमणक्रीडावर्णनायां वा प्रवृत्तायां, कंटकिता रोमाञ्चिता, "कंटकः क्षुद्रशत्रौ च रोमांचेऽपि च दृश्यते । " इति विश्वः,
१००१ नो ह्वयते (स्तं) १००२ [ प. पुस्तके प्रथमपादः गलितः]। [इतः कचित् क्वचित् श्लोकेषु अक्षरच्युतिः प. पुस्तके । ] नरभोग (प. स्तं) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com