________________
दामोदरगुप्तविरचितं विद्वेष्टि करणमध्ये रसनां ताम्बूलरागयुक्तेति । शंसति मतिं मुमुक्षोरविशिष्टां शशपाश्वपुरुषेषु ॥ ९९९ ॥
लतात्वेन उक्तिः कविसमयात् , कीदृशीं, भुजंगैः सपैं: परिवेष्टितां आवृतां श्लेषबलात् च भुजंगैः षिङ्गैः विदग्धकामुकैः आलिंगितां, अतः स्वयं रसामा॑ऽपि इति भावः, तां चंदनलतां, सा रसार्दा जलक्लिन्ना पक्षे रागस्निग्धहृदया, इतिशब्दः प्रकारवाची, न स्तौति, तस्याः एककालावच्छिन्नेन बहुनायकत्वात् इति भावः ॥ तथैव या स्वभावेन मदनमदवती इति भावः, मदनमूर्छितां स्मरेण संमोहं प्राप्तां सोच्छ्रयां सेन्द्रियमनःशक्तिनिरोधवतीं वा, श्लेषबलात् च मदनेन प्रद्युम्नेन गर्भस्थितेन मूर्छितां व्याप्तां यतः मत्स्याः उदरात् तस्य निर्गमः ( भागवते १०५५।१३ ), तादृशीं मत्सी 'माछली । इति प्रसिद्धं क्षुद्रजलचरविशेषं, स्वप्नेषु अपि कीर्त्यमानां मदनमूर्छितेति गीयमानगुणां, न शृणोति, किमु वाच्यं जाग्रदवस्थायां इति भावः । स्वयं मदनमूर्छिता, मत्सी अपि तथा, एवं तुल्यत्वेऽपि तां न्यक्करोति यत: तस्याः सा अवस्था केवलं शब्देष्वेव, न पारमार्थिकी इति, इत्याशयः ॥ अलंकाराः पूर्ववत् ॥ ९९८ ॥ तथा च या स्वभावेनैव रागयुक्ता इति भावः, स्वस्याः करणानां इन्द्रियाणां मध्ये, रसनां रस्यते आस्वाद्यते अनया इति रसना जिह्वा तां, विद्वेष्टि तां प्रति " तन्निन्दार्थममर्षणरूपा धीवृत्तिः द्वेष:" तं कुरुते, यतः साऽपि स्वा इव तांबूलरागयुक्ता इति, समानगुणयोश्च परस्परं स्पर्धा भवति । मंजरी तांबूलस्य राग इव गाढः राग: स्नेहः तेन युक्ता, रसना तु ताम्बूलभक्षणेन ताम्बूलस्य रागेण रक्तवर्णतया युक्ता, स च रागः कृत्रिमः अचिरस्थायी च, मंजर्याश्च तद्विपरीतः इत्यपि विद्वेषे कारणं इति च व्यंजितम् । एवं अन्येषां तिरस्कारकरणेऽपि, या, मुमुक्षोः मुक्ति संसारे अपुनरावृत्तिं इच्छतः जनस्य, मतिं निश्चयात्मिकां बुद्धिं, प्रशंसति, कीदृशी, शशा: 'ससला ' इति ख्याताः क्षुद्राः चतुष्पादाः, वृषाः वृषभाः 'बलद ' 'बेल । इति वा भाषायां प्रसिद्धाः, अश्वाः घोटकाः, पुरुषा: द्विपादाः प्रसिद्धाः, च, इमे अन्येषामपि प्राणिनां उपलक्षणं, तेषु सर्वेषु अविशिष्टा भेदरहितां समां इत्यर्थः, “ विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पंडिताः समदर्शिनः ॥ (५।१४)। इहैव तैर्जित: सर्गों येषां साम्ये स्थितं मनः ।" इति श्रीभगवद्गीतासु उक्तेः । एवंकरणे हेतुस्तु समानशीलत्वं, तथाहि श्लेषबलात् तस्याः अपि मतिः शशवृषाश्वसंशितेषु भिन्नगुणेषु अपि पुरुषेषु कामशास्त्रप्रसिद्धेषु, अविशिष्टा समाना. सर्वत्र तुल्यानुरागा एव इति भावः । अनेन तस्याः अतिकामुकीत्वं ध्वनितम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com