________________
४०८
दामोदरगुप्तविरचितं
या हसति सरोजवती रसान्विता सहजरागरक्तति ।
ध्यानधिय आत्मवृत्ति निन्दत्येकत्र पुरुष आसक्ताम् ॥ ९९६ ॥ तथायुक्तं रतिरहस्ये—“ सप्रत्यवायदुलभनिषेधविषयश्च यो विषयः। कामः स्वमाववामः प्रसरति तत्रैव दुर्वारः ॥” ( १३।१४ ) इति ॥ ९९५ ॥ इतः वाक्यान्तरगर्भितेन एकादशभिः कुलकेन अन्याः प्रेमाभिमानिन्यः उपहसंती सा कामदेवेन दृढं प्रहार्यते इति वदंती पूर्वपंचके नानाविधेषु रागेषु अविवेकदोषं भंगिविशेषेण सूचयति येति । अस्मिन् कुलके 'या' इति कर्तृपदस्य (९९६) 'हसति' इत्यादि 'स्फुरतिः (१००४) इत्यन्तैः क्रियापदैः संबंधः, साऽपि (१००६) यत: तेन दुरात्मना हन्तुं प्रारब्धा, ( अतः) (१००५) (हे नरनाथ किं ब्रवीमि ) पापकुसुमात्रः दुःसाध्य 'ग्रहं न उत्सृजति-इति अन्वयः ॥ या मंजरी, रसेन रागेण प्रीत्या अन्विता युता, त्वयि इति शेष:, त्वद्रूपगुणादिभिः त्वयि जातानुरागा इति भावः, इयं प्रीतिश्च ‘विषयात्मिका' इति संशिता " प्रत्यक्षा लोकत: सिद्धा या प्रीतिर्विषयात्मिका ।" इति कामसूत्रे ( १।२।२।६) लक्षिता अत्र अभिप्रेता, सरोजवती कमलिनी, 'सरोजवनीं ' इति पाठे कमलानां अल्पं वनं इत्यर्थः, हसति सहासं तिरस्कुरुते इति भावः, तत्र हेतुमाह-सा सरोजिनी सहजरागरक्ता सहजेन जन्मतः सिद्धेन रागेण स्नेहेन पक्षे लौहित्येन रक्ता अनुरागवती पक्षे रक्तवर्णा, इतिशब्द: हेतौ। हासहेतुस्तु-स्वा इव यद्यपि सरोजिनी रसान्विता ( रागयुक्ता पक्षे जलयुक्ता ), तथापि तस्याः राग: सहजः न तु स्वस्याः इव विवेकजः इति । एवमग्रेऽपि ॥ तथा या, त्वदेकताना इति भावः, ध्यानधियः ध्याने धी: चेतोवृत्तिः यस्य तस्य, ध्यानलक्षणं च-" ध्येयाकारवृत्तिप्रवाहोऽन्तरान्तराऽन्याकारप्रत्ययाव्यवहितो ध्यानम् ॥ इति भगवद्गीताटीकायां ब्रह्मानंदगिर्याख्यायां, (यदा स एव प्रवाहः ध्येयस्वभावावेशात् ध्येयाकारशून्यः एकरस: एव भवति तदा समाधिः इति भेदः,) ध्याने च अयं विशेष:-ध्यानस्य मार्गत्रयं शास्त्रप्रसिद्धं-तत्र एकः पतंजलिनिर्णीत: नानैश्वर्यकामस्य अणिमादिसिद्धिफलकः, अपरः वेदांतनिर्णीतः निदिध्यासनाख्यः ब्रह्मात्मैक्यसाक्षात्कारफलकः, तृतीयस्तु वासिष्ठोक्तः मनोनाशवासनाक्षयहेतुकः जीवन्मुक्तिसुखप्राप्तिफलकः; ग्रंथान्तरे च आलंबनभेदात् ध्यानयोगः चतुर्विधः-तत्र एक: कुंभकप्राणायामेन वायु स्थिरीकृत्य तदालंबने मनः कुर्यात् इति; अपरस्तु बाह्ये सूर्यचन्द्रादौ रामकृष्णादिप्रविमादौ वा, आभ्यंतरे च नासिकाग्रजिह्वाग्रहृदयाकाशादौ वा चित्तालंबनं कुर्यात् इति योगशास्त्रोक्तः; तृतीयस्तु षट्चक्रदेवतादिकं आलंब्य चित्तं स्थिरीकुर्यात् इति
मागमोक्तः; तुर्यस्तु जाग्रन्निद्रयोः अन्तराले वृत्तिद्वयमध्ये वा यदस्मितामात्रं निर्गुणं Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com