________________
कुट्टनीमतम् ।
४०७
स्वनियतपुरुषस्पृश्याः पापा वयमन्यथा क हीनकुलाः। क च यूयमिन्द्रकल्पा अनल्पमनसो गुणाभरणाः ॥९९४ ॥ दुष्प्रकृतेः प्रकृतिरियं तस्य तु दग्धात्मजन्मनः काऽपि ।
अगणितयुक्तायुक्तो लगयति चेतो यदस्थाने ।। ९९५ ॥ तस्य वक्षसः, पंचमी षष्ठी वा, रत्नं समुद्रमंथनोत्थचतुर्दशरत्नेषु एकं कौस्तुभाख्यं, जिघृक्षति ग्रहीतुमिच्छति ॥ तथा च क्षेमेन्द्रकृतपद्यकादंबर्या-" यत्प्राप्यं न मनोरथैर्न वचसा स्वप्नेऽपि दृश्यं न यत्तत्रापि स्मरविप्रलब्धमनसां लाभाभिमानग्रहः। मोहोत्प्रेक्षितशुक्तिकारजतवत् प्रायेण यूनां भ्रमं दत्ते तैमिरिकद्विचंद्रसदृशं खे नूनमाशाकृषिः ॥” इति । एवं त्रिभिः तस्याः अविमृश्यकारिता प्रकाशिता ॥ ९९३ ॥ पूर्वोक्तस्य मंजरीप्सितस्य कथं असंभवित्वं इति चेत्तत् खेदगर्भया उक्त्या स्पष्टयति स्वेति । अन्यथा एवं असंभवो नो चेत् तर्हि, वयं हीनकुलाः नीचकुलजाः कुशीलवत्वात् शूद्राचारत्वात् (नाट्यशास्त्रे ३६।३४-४१), वस्तुतस्तु वेश्यात्वादपि, अत एव पापाः पापसंपन्नाः, ततः किमित्याह स्वेत्यादि, स्वेषां ये नियताः स्वजातीयत्वेन नियमिता: तैरेव पुरुषैः स्पृश्या: अर्थात् विवाहादिसंबंधैः ग्राह्याः, तादृशाः क्व; व च यूयं यूयमिति एकत्वेऽपि गौरवात् बहुवचनं, इंद्रकल्पाः देवराजसदृशाः, ईषन्न्यूने कल्पप्प्रत्ययः, अनल्पमनसः उदारान्तःकरणाः, गुणाभरणाः विनीतत्वकुलीनत्वादिनायकगुणैः अलंकृताः । यथोक्तं पूर्व " अविशुद्धकुलोत्पन्ना 'काह: क च भवन्त: श्लाघनीयजन्मगुणाः ।" ( आ. ४५८) इति तथा इति भावः । द्वौ क्वौ महदन्तरं सूचयतः । अत्र द्वयोः अननुरूपत्वेऽपि संसर्गाभावत्वात् न विषमालंकारः ॥९९४॥ एवं वैषम्येऽपि तस्याः दुष्प्राप्यप्रेप्सेति कामदेवस्य चेष्टां निर्णयति दुष्प्रकृते: इति । तु: अवधारणे । तस्य, दग्धस्य धिक्कारपात्रस्य “ धिक्कारे दग्धहतकादयः शब्दाः प्रयुज्यते " इति, आत्मजन्मनः स्वयंभुवः कामदेवस्य, दुष्प्रकृतेः दुः दुष्टा: प्रकृतिः अमात्यादिः कार्यसाधिका वसंतादिरूपा यस्य, यद्वा दुष्टा क्रूरा अदया प्रकृतिः स्वभावः यस्य तस्य, इयं, काऽपि अनिर्वर्णनीया, प्रकृतिः स्वभावः अत एव नित्यः अविकार्यः गुणः स इति सूच्यते, यत् , अगणितयुक्तायुक्तः विवेकरहित: सन् , कामिना चेतः, मतिविपर्यासेन, अस्थाने इति अयुक्तार्थे अव्ययं, दुष्प्राप्ये अतीववैषम्यवति वा इति भाव:, लगयति लग्नं सक्तं रागवंतं करोति, दृढं संबद्धं करोति, 'शरो लमः' इतिवत्प्रयोगः । ( अत एव मन्मथस्य 'रागरज्जुः । इति नामान्तरं ( त्रिकोडशेषे)।
९९४ अनियत (गो) स्वनियत (प.स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com