________________
४०६
दामोदरगुप्तविरचितं
निश्चेतनाऽभिकाङ्क्षति पीयूषं त्रिदिवसझनामशनम् । अभिलषति शयनमुष्णे नवचन्दनपल्लवास्तरणम् ॥ ९९२ ॥ विदधाति पारिजातकसुमनोनि!हधारणश्रद्धाम् । दुर्व्यवसिता जिघृक्षति नारायणवक्षसो रत्नम् ॥ ९९३ ॥
' वाक्यार्थरूपकं' इत्यपि संज्ञा । कुवलयानंदानुसारेण च ललितालंकारः, “ प्रस्तुते वर्ण्यवाक्यार्थप्रतिबिंबस्य वर्णनम् । ललितं" इति लक्षित: ; प्रकृते प्रस्तुतं बिंबभूतं अनुक्त्वा तत्प्रतिबिंबभूतस्य वाक्यार्थस्य अभिधानात् ॥ एवमेवाग्रिमार्याद्वयेऽपि ॥९९१॥ एवमेव निश्चेतना व्यपगतबुद्धिः ज्ञानशून्या, त्रिदिवं त्रिदशाः दीव्यंति क्रीडंति अत्र इति त्रिदिवः स्वर्ग:, सद्म गृहं येषां तेषां देवानां, अशनं भोजनं, यत् पीयूषं अमृतं, तत् प्राप्तुं इच्छति। तथा उष्णे संतप्ते दाहके पदार्थे, अधिकरणे सप्तमी, नवाः प्रत्ययाः ये चंदनवृक्षस्य किसलयाः ते आस्तरणं वर्णकम्बलं प्रच्छदपटं इति यावत् , " आस्तरणं शय्यायां वर्णकम्बले ।" इति मंखकोशः, यस्य तादृशं शयनं शय्यां, " शयनं रतशय्ययोः ।" इति मंखकोश:, अभिलषति । तथाहि उष्णपदार्थे शीतलचंदनपल्लवशय्याबुद्धिवत् असंभवी तस्याः अभिलाषः इति भावः ॥ ९९२ ॥ तथा पारिजातकस्य पारिणः अब्धेः जातस्य देवतरुविशेषस्य, तथा च " पञ्चैते देवतरवोमन्दार: पारिजातकः । संतान: कल्पवृक्षश्च पुंसि वा हरिचंदनम् ॥” इति अमरः, तस्य सुमनसां पुष्पाणां य: नियूहः स्तबकः तस्य धारणे वेणीरूपेण मस्तकस्योपरि स्थापने इति भावः, श्रद्धां स्मृहां आदरं वा, विदधाति कुरुते । अपि च, दुर्व्यवसिता दुष्टं व्यवसितं उद्योगः यस्याः सा तादृशी; नारायणः 'नरायणः' इत्यपि शब्द:नरः ब्रह्म, नरजानां अपां कार्य नारं ब्रह्माण्डं तत् यस्य अयनं वसतिस्थानं स: नारायणः; यद्वा " आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्व तेन नारायणः स्मृतः ॥” ( मनुस्मृतौ १।१० ) इति; यद्वा नराणां समूहः नारं, तस्य अयनं स्थानं इति नारायणः, तस्य विराटस्वरूपत्वात् ; यद्वा नरेण अनाद्यविद्यावता जीवेन स्वकर्मद्वारा सृष्टं नारं शरीरं तदेव अयनं प्रवेशस्थानं यस्य सः, " अंत: प्रविष्टः शास्ता जनानाम् ।" इत्यादिश्रुत्या ।
९९२ शयनमिष्टे नवणे (गो) [प्रकान्तविशिष्टार्थविरुद्धः पाठः ] । शयनमु “नव (स्तं ) ९९३ निर्वृह (प. स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com