SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । ४०५ 'मुररिपुनाभिसरोरुहमवतंसीकर्तुमीहते मूढा । नक्षत्रराजमण्डलमिच्छति वियतः समादातुम् ॥ ९९१ ।। कन्दर्पः, पर्यकः संगमाशये ॥ (९।२)।" इति । प्रकृते दूत्युक्त्यनुसारेण कंदर्पपर्यको प्रेषितौ इति बोध्यम् ॥ तदनु पश्चात् , स्वावसरे वक्तुं उचितं समयं आलक्ष्य, सह चरति इति सहचरी सखी अनुरक्तचित्ता, तस्याः मंजर्याः कार्य प्रयोजनं, व्यज्ञापयत् विज्ञप्तिरूपेण प्रकाशयन्ती अभूत् ॥ ९९० ॥ इत: चत्वारिंशद्भिः मंजर्याः विप्रलंभापरनामकायोगशंगारवर्णनं, स च-" तत्रायोगोऽनुरागोऽपि नवयोरेकचित्तयोः । पारतंत्र्येण दैवाद्वा विप्रकर्षादसंगम: ॥ " इत्युक्तः । “दशावस्थः स तत्रादावभिलाषोऽथ चिन्तनम् । स्मृतिर्गुणकथोद्वेगप्रलापोन्मादसंज्वराः । जडता मरणं चेति दुरवस्थं यथोत्तरम् ॥” इति ॥ तत्र प्रथमं तस्य करुणावृत्तिमुद्दीप्य स्वाभीष्टं साधयितुं विषादगर्भोक्तिः । तत्रादौ " मनोरथानामगतिर्न विद्यते । " ( कुमार० ५।६४) इति न्यायेन राजपुत्रसमागमार्थिनी सा शशशृंगजिक्षिणीव दुर्लभप्रार्थना अनुशोच्या च इति सूचयन्ती प्राह मुररिप्विति ॥] 'मुररिप्वित्यादिना साधनपथातीतस्य स्वाधीनीकरणाय प्रवृत्तिः मौग्ध्यादिति प्रतिपाद्यते' [इति टिप्पणी। मूढा याथार्थ्यानवधारिणी जडा, तव दु:संभाव्यसमागमस्य अर्थितत्वात् , अत्र विशेष्याग्रहणेन अतिमूढत्वं द्योतितं; सा मुराख्यस्य असुरविशेषस्य रिपुः शत्रुः मुररिपुः विष्णुः, तस्य नाभिसरोरुहं नाभे: जातं कमलं ब्रह्मणः जन्मादिस्थलं, अवतंसीकर्तुं कर्णाभरणीकर्तु, अभूततद्भावे विः, ईहते वाञ्छति । वियत: आकाशात् , च, नक्षत्रेषु अश्विन्यादिषु सप्तविंशतिकेषु दक्षप्रजापतेः कन्यात्वेन चंद्रस्य च पत्नीत्वेन कल्पितेषु राजते प्रकाशते इति राजा ईश: नक्षत्रराज: चंद्रः, तरय मण्डलं संघ, सनक्षत्रं चंद्र इत्यर्थः, यद्वा मंडलं बिम्बं, " समूहे मण्डलं बिम्बे देशे द्वादशराजके । ” इति शाश्वत:, समादातुं इच्छति जिघृक्षति । यथा विष्णुनाभिजकमलेन कर्ण भूषयितुं समीहा, चंद्रस्य च जिघृक्षा असंभवितार्थविषयिणी, तथा तस्याः तव प्राप्तिः इत्यभिप्रायः । एवमग्रेऽपि ॥ अत्र प्रस्तुता त्वदसंभाव्यप्राप्त्यां इच्छा इति तदसंभवलक्षणे वाक्यार्थे विष्णोः नाभिकमलस्य कर्णाभरणीकरणरूपः असंभवलक्षणः वाक्यार्थः अध्यारोप्यमाणः, विष्णुनाभिकमलस्य तत्कर्णाभरणत्वासंभव इव तस्याः त्वत्समागमासंभवः इति उपमानोपमेयभावत्वं परिकल्पयति इति, “ अभवद्वस्तुसंबंध उपमापरिकल्पक: ।" इत्युक्तलक्षण: निदर्शनाऽलंकारः, मतान्तरेण सः अत्र व्यंग्यः, प्रस्तुतस्य शब्दैः अनुपात्तत्वात् काव्यप्रकाशकारादिमतानुसोरण सा च प्रथमा । अस्या एव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy