________________
४०४
दामोदरगुप्तविरचितं इति तत्स्तुतिमुखरमुखे राजसुते मकरकेतनाकुलिते । समुपागता प्रगल्भा मञ्जरिकाचोदिता दूती ॥ ९८९ ॥ सा सप्रणतिः पुरतः सुमनस्ताम्बूलपटलकं निदधे ।
व्यज्ञापयञ्च तदनु स्वावसरे सहचरीकार्यम् ॥ ९९० ॥ करोति तत् तस्याः चातुर्य अद्भुतत्वं च ॥ अत्र श्लेषोत्थापित: विरोधालंकारः, तेन च व्यतिरेक: व्यंग्यः ॥ ९८८ ॥ इतिशब्दः प्रकारोपसंहारे, मकरकेतनः कामदेव: पूर्व (५९० आ. टी.) व्याख्यातः, तेन आकुलिते विह्वलीकृते, राजसुते समरभटे, तस्याः स्तुतौ गुणपुरस्कारेण वर्णने वाचालं वदनं यस्य तादृशे सति, मंजरी एव मंजरिका तया चोदिता प्रेषिता, प्रगल्भा प्रौढोक्तिविचक्षणा यद्वा प्रागल्भ्यगुणवती, प्रागल्भ्यं च " निःसाध्वसत्वं प्रागल्भ्यं प्रयोगेष्वपि सर्वतः ।" इत्युक्तरूपं, दूती कामिनोः संघाटिका, समुपागता तस्य सम्यक् उप समीपं आगताऽभूत् ॥ दूतीगुणाश्च प्रोक्ताः आदिपुराणे ( ५।३९-४० ) कामप्रदीपे (२०-२१) च-"सुवेषता, दुःखसहिष्णुता च, सुशीलता, कोमलवाग्मिता ('कोमलवाक्यता') च । सन्मंत्रिताऽऽच्छादितमंत्रता
च, च्छंदानुवर्तित्वमलजिता च ॥ प्रोत्साहनं, गुणकथा, कथनं ब('क')लानां, विश्रंभणं बहलता धनदर्शनं च । गाथा( ढा )नुरागरचनं, वचनस्य सिद्धिः, कति षोडशविधं कथयंति दूत्याः॥” इति; आदिपुराणे पुन: सप्तविंशतिकर्माण्यपि कथितानि ( ४३-४७) ततो ज्ञेयानि ॥ ९८९ ॥ दूत्या: तदनंतरं व्यापारमाह सेति । सा दूती, सप्रणतिः प्रणामैः सह आदौ स्वनिकृष्टताद्योतकान् तदुत्कृष्टताद्योतकान् वा प्रणामान् अवयवसन्निवेशविशेषान् कृत्वा, तस्य राजपुत्रस्य पुरत: अग्रे, सुमनसां पुष्पाणां ताम्बूलानां च पटलकं पुष्पादिधारणपात्रं, " छदिर्नेत्ररुजोः क्लीबे, समूहे पटलं न ना । पुष्पादिभाण्डे, नाऽध्याये ।" इति मंखकोशः; निदधे स्थापयामास । इदं " रिक्तपाणिर्न पश्येनु राजानं दैवतं गुरुम् । नैमित्तिकं विशेषेण सुहृदं फलकामुकः ।" इति, तथा “ इष्टभार्या प्रियं मित्रं पुत्रं चापि कनीयसम् । रिक्तपाणिर्न पश्येत्तु तथा नैमित्तिकं प्रभुम् ॥ ॥ इति च न्यायेन उपायनं, प्रियाख्यानकं च; अपि च तांबूलवीटिकाविशेषप्रेषणेन तांबूलसंकेतोऽपि, तदुक्तं नागरसर्वस्वे-" तांबूलबीटकाः पञ्च कीर्तिता नरपुंगवैः । कौशलांकुशकंदर्पपर्यकचतुरस्रकाः ॥ (९।१)। कौशलः स्नेहबाहुल्ये, चाहूतावंकुशस्तथा । मदनातॊ च
९८९ सुते मीनकेतुनाऽऽकु ( गो) । समुपयाता प्र (गो) [ दुष्टयतिकः पाठः ] ९९० व्यज्ञापयदथ तमनु (प. स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com