________________
कुट्टनीमतम् ।
४०३
बहलोपायाभिज्ञा गुणविषये सततमाहितप्रीतिः।
बलिनः स्थापयति वशे करभोरुर्विग्रहेण मृदुनैव ॥ ९८८ ॥ कटक: वलय: [ 'कडु' इति भाषायां प्रसिद्धं बाहुभूषणं, श्लेषेण ] अद्रेः नितंबश्च, "कटकोऽस्त्री नितंबोऽद्रे: क्लीबे वलयसैन्ययोः ।" इति मंखकोश:, तस्य योजनं संगमनं, अयुक्तं अनुचितं, मणालिकायाः कोमलत्वात् कटकस्य श्लेषबलात् कठोर. त्वात् च; यथा मृणालस्योपरि बृहतः प्रस्तरस्य निवेश: तथा । अत्र स्थूलादिविशेषणानां साभिप्रायत्वेन परिकरालंकारः, पूर्वार्धे अनुरूपयोः द्वयोः वर्णनात् समालंकारः, उत्तरार्धे तु श्लेषण अननुरूपयोः संसर्गकथनात् श्लेषमूलको विषमालंकारः, अपि च अत्रैव समर्थ्यसमर्थनभावात् काव्यलिंगं अलंकारः ॥ ९८७ ॥ भंगिविशेषेण तस्याः अपूर्व नीतिकौशलं प्रकटयति बहलेति । बहला: 'बहुलाः' इत्यपि रूपं अनेकाः इत्यर्थः, उपायाः साधनानि-जनानां वशीकरणाय विलासकलाकौशलादीनि, यद्वा प्रियप्रसादनाय उपयुक्ताः सामादयः षट् , ते च सामदानभेदोपेक्षाप्रणति-प्रसंगविध्वंस-दण्डा:, सोदाहरणं शृंगारतिलकस्य द्वितीयपरिच्छेदे दर्शिताः; पक्षे शत्रुजयाय प्रयोज्याः सामादयः सप्त, ते च-" साम दानं च भेदश्च दण्डश्चेति चतुष्टयम् । मायोपेक्षेन्द्रजालं च सप्तोपाया: प्रकीर्तिताः ॥" ( १८।३ ) इति कामंदकीये नीतिसारे । तेषां अभिज्ञा ज्ञात्री; तथा सततं सर्वदा, गुणविषये रूपरसादिषु तदुपभोगेषु इति यावत् , यद्वा जनमनोवशीकारपर्याप्तेषु शरीरप्रसाधनसंगीतविलासादिगुणेषु, आहितप्रीतिः कृतानुरागा तत्संपादने इति भावः; पक्षे राजनीतिप्रसिद्धाः षङ्गुणा:, ते च–“ संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । षड्गुणा:" इत्यमरः, तेषां गुणानां विषये आधारे, तादृशगुणवति पुरुषे, जातावेकवचनं पुरुषेषु इत्यर्थः । तादृशी करभोरु:-करभः करिशावकः, गौणीवृत्त्या च तस्य हस्तः (शुण्डादण्डः), तद्वत् ऊरू यस्याः सा इति केचित् ; अन्ये तु करभः " मणिबंधादाकनिष्ठं करस्य करभो बहिः । इत्युक्तत्वात् तदाकारौ तद्वद्वा ऊरू यस्याः सा करभोरु: इति; एतेन मूले स्थूलौ तदधः उत्तरोत्तरं आजानु तनूभूतौ यद्वा यथापूर्व पीवरौ ऊरू यस्याः इति उपमया उक्तं भवति । अनेन विशिष्टपदेन ऊरुकांडस्पौत्सुक्यं व्यंजितम् । सा मृदुना कोमलेन पक्षे अनुग्रेण, एव इत्यव्ययं अवधारणे पक्षे उग्रादीनां व्यवच्छेदार्थ, विग्रहेण शरीरेण पक्षे युद्धेन, बलिन: सबलान् पुरुषान् पक्षे सैन्ययुक्तान् अर्थात् शत्रून् , वशे स्थापयति वशीकरोति पक्षे स्वाधीनान् करोति ॥ यत् सा मदुनैव विग्रहेण बलिनोऽपि वशी
९८८ गुणविधये (गो)। प्रीति (गो)। करभोरू विन (स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com