________________
१०२
दामोदरगुप्तविरचितं साकम्पोऽधर, ईक्षणयुगलस्याधीरता, भ्रुवो भङ्गः। तन्वङ्गया बलमीदृग् जयति जगत्तदपि निःशेषम् ॥ ९८६ ॥ वहतु नितम्बः स्थूलो रशनां, हारं च कुचयुगं पीनम् । तद्धाहुमृणालिकयोः सापायं कटकयोजनमयुक्तम् ॥ ९८७ ॥
सहजानां अंगानां मूर्ध्नि स्थितानां वा केशानां भारः न भवति इति कृत्वा, यद्वा 'सहजानां परस्परकृतपरिश्रम: सह्य एव न तथाऽन्यसंपादितः' इति न्यायेन तेन सहज भूषणं कृतं इति भावः । अनया सा स्वभावेनैव तनुमध्या कोमला अकृत्रिमरूपवती च इति ध्वनितम् । पदार्थहेतुकं काव्यलिंगमलंकारः, तनु: मध्यदेशश्च अहार्यः पर्वत एव मंडनं तत् वोढुं अशक्तः, मध्यदेशे पर्वताभावात् इति समासोक्तिः अपि । ॥ ९८५ ॥ समुच्चयेन अधरादीन् वर्णयन् 'अबलाकुलगुरु ग्वत् ( कामदेववत् ) अबलायाः अपि तस्याः अद्भुतबलवत्त्वमाह साकम्प इति । तस्याः अधर: ओष्ठः,साकम्प: ईषत् कम्प: आकम्प: तेन सहितः साकम्प: किञ्चित्स्फुरन् , अयं रत्युद्भवसूचकः अधरस्य गुणः, तथापि अनेन तस्य भीरुता सूचिता । एवमन्यत्र । ईक्षणयुगलस्य नेत्रयोः अधीरता चाञ्चल्यं, अनेन तयोः वीरोचितधैर्यस्य अभावः लक्षितः । भ्रवः नेत्रोर्ध्वस्थ. रोमराजे:, इदं अपरस्या अपि उपलक्षणं, भंगः भेदः कौटिल्यं वक्रिमा, भ्रभंगः चिल्लीवल्ली, अत्र भंगशब्देन भयवशात् नाश: व्यंजितः । तन्वंग्याः तनुविशेषणेन प्रधानस्य उक्तांगविशिष्टांगिनः अपि निर्बलत्वं ध्वनितं, ईदृग् वर्णितप्रकारकं, बलं सामर्थ्य अपि च शब्दशक्या सैन्यं,अर्थात् स्वस्या: तदंगभूतानां च बललेशाभाव एव, तदपि तथापि, निःशेषं सकलं, जगत् लोकं, जयति पराभवति स्वस्याः वशवर्ति कुरुते इति भावः, इयं मंजरी । इत्यहो आश्चर्य इति भावः ॥ अनया तस्या जगजैत्रं सौन्दर्य लोकोत्तरं इत्युक्तम् ॥ समुच्चयविषमालंकारविशेषयोः संसृष्टिः, " विरूपकार्यस्योत्पत्तिरपरं विषमं मतम् ।” इति कुवलयानंदीयलक्षणात् ॥ ९८६ ॥ तस्याः अन्यानलंकारान् विवेचयति वहतु इति । तस्याः नितंबः स्थूल: बृहन् सन् , रशना 'रसना' इत्यपि शब्द: कांची, तां वहतु, काच्याः भारवत्त्वेऽपि नितंबस्य पुष्टत्वात् तद्भारं वोढुं सामर्थ्यात् ; एवं कुचयुगं अपि पीनं पुष्टं प्राप्तसमुचितपरिणाहोच्छ्रायं सत्, हारं मुक्तादिरत्नमयं, पूर्वोक्तन्यायेन वहतु, न तत्र कापि विप्रतिपत्ति: हानिः वा इति भावः । परंतु तस्याः बाहू मृणालिके बिसतंतू इव, तद्वत् कोमलौ इति भावः, तयोः सापायं अपाय: अनर्थः तेन सहितं सापाय, अनर्थकरं इति भावः, कटकयोजनं]
९८६ ध्रुवोर्भङ्गः (प. स्तं) [ वचने प्रक्रमभङ्गदूषितः पाठः ] ९८७ रसनां (स्तं) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com