SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ कुटनीमतम् । कृश एष मध्यदेशस्तन्व्या नाहार्यमण्डनं वोढुम् । शक्त इति कृतं विधिना रोमावलिभूषणं सहजम् ॥ ९८५ ॥ ४०१ नादिषु याता अनुगता, हंसगामिनी च ' [ इति टिप्पणी । पूर्वार्धोक्तं अद्भुतं उचरार्धे प्रकटयति नो इति । इयं कृशोदरी कृशं अस्थूलं अनुन्नतं निम्नतलं, उदरं नाभ्यधोभाग: 'पेट' इति भाषायां प्रसिद्ध:, यस्याः सा स्त्रीणां तादृशस्य उदरस्य प्रशस्तत्वात् तद्वती, तदुक्तं -" उदरेणातितुच्छेन विशिरेण मृदुत्वचा । योषिद्भवति भोगाढ्या नित्यं मिष्टान्नसेविनी ॥ " ( काशीखंडे ) इति ॥ धार्तराष्ट्रैः धृतराष्ट्रपुत्रैः कौरवैः सहयाता गता अपि, अपार्था पृथायाः कुन्त्याः पुत्राः पार्थाः पाण्डवा: न विद्यंते यस्याः सा तादृशी नो उता, कौरवपाण्डवानां वैरित्वात् सहावस्थानासंभवेऽपि तया सह तद्दर्शनात् अद्भुतत्वम् । विरोधपरिहारस्तु धार्तराष्ट्रः कृष्णवर्णचंचूचरणयुक्त: हंसभेद: 'गेडिहंस' इति वंगभाषायां प्रसिद्ध:, ( रक्तवर्णचंचचरणयुक्तस्तु राजहंसः इति भेद:, ) तद्वत् लीलाञ्चितसविभ्रमं यातं गमनं यस्याः सा हंसगामिनी, अपिः चार्थकः, अपार्था अपगतः निवृत्तः अविद्यमानः अर्थः प्रयोजनं जनुष: इत्यर्थात् यस्याः सा, नो जाता न अभूत्, अतिरूपवत्त्वात् लोकनेत्रानंददायित्वात् सफलजनूः इति भावः ॥ अत्र श्लेषोत्थापितविरोधालंकारेण अद्भुतो रसो व्यंग्यः ॥ ९८४ ॥ तस्याः रोमावलिं वर्णयति कृश इति । अस्याः तन्व्याः अस्थूलशरीराया:, अनेन तस्या: स्वाभाविकं कृशत्वं सूचितं; एषः मध्यदेश: कटिभागः, कृशः अतिकनीयान् सन्, ] 'अहार्यः पर्वत:, अत्र स्तनौ तत्त्वेनोक्तौ ' [ इति टिप्पणी, तत्र " त्रिषु हर्तुमशक्ये स्यादहार्य पर्वते पुमान् ।” इति मंखकोशः, तत्तु प्रकृते असंगतम् । वस्तुतस्तु आहार्यमंडनं इति च्छेदः, आहार्यमंडनं च आहर्तुं शक्यं यत् आभरणं तत्, आभरणं च चतुर्विधं, तथाहि भरत:- " चतुर्विधं च विज्ञेयं देहस्याभरणं बुधैः । आवेध्यं बंधनीयं च क्षेप्यमारोप्यकं तथा ॥ आवेध्यं कुंडलादीह यत्स्याच्छ्रवणभूषणम् । श्रोणिसूत्रांगदैर्मुक्ताबंधनीयावि ( नि ? ) निर्दिशेत् ॥ प्रक्षेप्यं नूपुरं विद्याद्वस्त्राभरणमेव च । आरोप्यं हेमसूत्राणि हाराश्च विविधाश्रयाः || ” ( २१|१११३) इति, प्रक्षेप्यं रशनादिकं, तत् वोढुं धारयितुं न शक्तः कृशत्वात्, इतिशब्द: हेतौ, विधिना विधत्ते करोति इति विधिः स्रष्टा तेन, रोमावलिः जघनादूर्ध्व नाभिपर्यंतं नाभेरूर्ध्वं वा रोम्णां सूक्ष्मवालानां रेखा यौवनप्रादुर्भावसूचिका सा एव भूषणं अलंकारः, सहजं शरीरेण सहैव जातं अकृत्रिमं (स्वाभाविकं ) च कृतं निर्मितं, I ९८५ मण्डलं ( गो ) [ असंगतार्थः पाठः ] | 'ण्डनं बाहुं ( 4 ) [ असंगतार्थः पाठः ] २६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy