SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ४०० दामोदरगुप्तविरचितं ललनास्तदतुल्यतया पुरुषा अपि तदुपयोगविरहेण । गच्छन्ति शोषमनिशं प्रकृतिद्वयवर्जिताः स्वस्थाः ॥ ९८२ ॥ दुर्वृत्तयोर्न वृत्तं श्लाघास्पदमेति तत्पयोधरयोः । यौ दवा मलमूर्ति मध्ये हारं जनक्षयं कुरुतः ॥ ९८३ ॥ भूमण्डलेऽत्र सकले नातः परमपरमद्भुतं किञ्चित् । नो जाता यदपार्था कृशोदरी धार्तराष्ट्रयाताऽपि ॥ ९८४ ॥ भावः; अत्र निषेधमुखसंभावनाद्वारा कल्पितभ्रांतिमान् अलंकारः॥ ९८१ ॥ पुनश्च ललनाः रमण्य: अपराः स्त्रियः, तदतुल्यतया रूपविलासादिषु तस्या: असमानतया, ततो हीनत्वात् इति ; तथा पुरुषा: पुल्लिंगा:, तस्याः उपभोगस्य आलिंगनादिसुरतान्तसेवनस्य विरहेण अप्राप्त्या, दर्शनेऽपि स्पर्शनादे: अभावेन इति भावः, अनिशं निरन्तरं, शोषं तानवं का श्लेषबलेन तदाख्यं रोगं च गच्छंति उपयांति । स्त्रियः ईर्ष्याग्निना तप्यमानाः शरीरतानवं, पुरुषाश्च विरहाग्निना दंदह्यमानाः शोषरोगं प्राप्नुवन्ति इति भावः । " शोषस्तानवरोगयोः " इति मंखकोश: । ननु एवं अस्मिन् लोके न कोऽपि सुखी इति चेत् न, ] प्रकृतिद्वयवर्जिता: [ स्त्रीपुरुषभिन्नाः ] षण्ढा: [ इत्यर्थात्, स्वस्थाः स्वस्मिन् आत्मनि तिष्ठन्ति ते अव्याकुलचित्ताः सुखिनः इत्यर्थः ॥ स्वस्थाः इत्यस्य साध्यत्वे प्रकृतिद्वयवर्जितत्वरूपहेतुकथनात् अनुमानालंकारः ॥ ९८२ ॥ हारालंकृतस्तनौ वर्णयति दुर्वृत्तयोरिति । दुष्टं वृत्तं चरित्रं ययोः तयोः ] दुर्वृत्तयोः दुराचारयोः [ अपि च सुदृढयो, “वृत्तमध्ययने पद्ये चरित्रे वर्तने मृते । अल्पाशये त्रिलिंगः स्यादतीते निस्तले दृढे ॥” इति मंखकोशः, तस्याः पयोधरयोः कुचयोः, वृत्तं चरितं श्लाघास्पदं न एति न प्रशस्तम् । ] दुराचारमेव प्रतिपादयति यौ इति । [ यौ कुचौ, अमलमूर्ति स्वच्छं, अपि च अपापं, हारं मुक्तावलिं मध्ये आत्मनोः अन्तरे, दत्त्वा स्थापयित्वा, संप्रापितशोभातिशयेन, अपि च श्लिष्टपदबलात् अपापं निष्कपटं कञ्चन मध्ये कृत्वा नाम मध्यस्थं कृत्वा प्रतिभूतया संस्थाप्य, जनक्षयं लोकमृत्युं, कुरुत: संपादयतः, तदेतद्वृत्तं तयोः दुर्वृत्तत्वपोषकं निंद्यं इति भावः ॥ व्याजस्तुतिः अलंकारः, अत्र दुर्वृत्तादिशब्दैः प्रतिपाद्यमानायाः निंदायाः पयोधरयोः वृत्तत्वहारवत्त्वमनोहरत्वादिस्तुतौ पर्यवसानात् ; तलक्षणं च " व्यक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यां खतिनिन्दयोः || ” इति कुवलयानंदे || अत्र वक्रभणित्या प्रशंसनम् ] ॥ ९८३ ॥ 'अपार्था पार्थाः युधिष्ठिरादयः तद्भिन्ना इत्यर्थः, निरर्थरूपा च नो जाता । धार्तराष्ट्रेषु दुर्योध९८२ शोकमनिशं ( प. स्तं ) [ हीनार्थः पाठः ] ९०४ याता नो गद पार्था ( प. स्तं) [ अर्थरहितोऽक्षरमात्रः पाठः ] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy