________________
कुटनीमतम् । यदि पश्यति तां शर्वस्तदपररामासमागमाद्विमुखः । निन्दति मूर्धनि सोमं स्मराग्निसंधुक्षणं शरीरं च ॥ ९७८ ॥
यौवनरूपवेषदाक्षिण्यविज्ञानविलासपूर्वाः । स्त्रीरत्नसंज्ञा च गुणान्वितासु, स्त्रीव्याधयोऽन्याश्चतुरस्य पुंसः ॥” (७७।१३ ) इति । ( दाक्षिण्यं आनुकूल्यं, विज्ञानं कामशास्रोक्तप्रकारैः कलाभिश्च पुरुषचित्तग्रहणे कौशलम् ।) अंगना एव रत्नम् ; अनेन सत्सु अपि अन्येषु हीरकमाणिक्यादिरत्नेषु अनयैव वसुंधरा रत्नवती इति सूचितं; तथा अन्येषां पामरप्रसिद्धयैव रत्नत्वं इयं तु परमार्थतः इति अपह्नवो व्यंग्यः । दृष्टा, नष्टं अवसितं पठने चतुर्वेदपाठे अवधानं चित्तैकाग्र्यं यस्य सः, तद्रूपोपहतः वेदपाठे विस्मृत्या स्खलनशीलः सन् इति भावः, सनिर्वेद: " निर्वेदः स्वावमानना" तद्वान् स्वनिंदकः इत्यर्थः, भवति । ब्रह्मणो वेदस्खलनेषु तद्रूपावलोकनस्य कारणत्वकल्पनात् असंबंधे संबंधरूपा अतिशयोक्तिः अलंकारः, काव्यार्थापत्तिश्च, उभयोः संकरः ॥९७७॥ ब्रह्मणोऽनन्तरं महेश्वरस्य दशामाह यदीति । यदीति संभावनायां, तां मंजरी, शर्वः प्रलये सर्व शणाति हिनस्ति इति शर्वः महादेवः, पश्यति पश्येत् नयनयुगलावलोकनविषयीकुर्यात् , तत् तदा, मंजरीं विहाय अपरस्याः अन्यास्याः कस्याश्चिदपि, रामायाः रमयते इति रामा रमणी तस्याः, समागमात् पराङ्मुखः भूत्वा, मूर्धनि शिरसि, स्थितं, स्मरामेः कामदाहस्य संधुक्षणं प्रवर्धकं, सोमं कामसुहृदं चन्द्रं, तदुक्तंकर्णसुंदरीनाटिकायां-" परं मैत्रीपात्रं त्रिभुवनजिगीषोः स्मृतिभुवः ।" ( २।१३) इति; तथैव अनंगमुद्दिश्य "परमसुहृदनंगो रोहिणीवल्लभस्य ।" (विद्धशालभंजिकानाटिकायां १११) इति, यतः चन्द्रोऽपि कामस्य उद्दीपनविभावेषु एकः; निंदति निदिष्यति, वर्तमानसामीप्ये लट् ; तथा स्मरामिना कामानलेन संधुक्षणं संतपनं दाहः यस्य तं कामशरलक्ष्यभूतं इति यावत् , स्वस्य शरीरं शीर्यते इति शरीरं देहं च, निंदति, यथोक्तं-" तव कुसुमशरत्वं शीतरश्मित्वमिन्दोद्धयमिदमयथार्थ दृश्यते मद्विधेषु ।" ( शाकुं० ३।२) इत्यादि । स्मरामिसंधुक्षणं इत्यत्र अर्थश्लेषः, तथा हरेण तृतीयनेत्रामिना कामशरीरं दग्धं, अनेनापि हरशरीरे तदेव क्रियते इति सूचनात् परिवृत्ति: व्यंग्या । देवदेवस्य तद्दर्शने इयं दशा, किमु वाच्या सा पामराणां जनानां इत्यर्थापत्तिपूर्वकः आक्षेपोऽपि अत्र पूर्वस्यां आर्यायां च ध्वन्यते । अत्र काव्यप्रकाशानुसारेण यद्यर्थातिशयोक्तिः अलंकारः, कुवलयानंदानुसारेण संभावनालंकारः ॥ ९७८ ॥
९७८ सर्वस्त (स्तं)। स्तद्रूपरामा (५)। [अधिकमात्रः यतिभंगदूषितच पाठः ।। संधूक्षणं (स्तं)।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com