________________
३९८
दामोदरगुप्तविरचितं
केशव इह सन्निहितः, साऽपि मनोहारिरूपसंपन्ना | तद्वक्षः यवनभुवं कथमुज्झति सैन्धवीशङ्काम् ॥ ९७९ ॥ उदयति न पण्डितानां कथमात्मनि कौतुकं गजेन्द्रगतिः । यन्नववयसां पुंसां विना क्रियायोगमुपसर्गाः ।। ९८० ॥
,
विष्णोस्तु भ्रममाह केशव इति । अत्र अर्थक्रमेण अन्वयः बोध्यः । सा मंजरी, अपि अपिना लक्ष्मीवत् इति बोध्यते, मनोहारि चित्ताकर्षकं यत् रूपं अनाकलितभूषणाद्याडंबरं सौन्दर्य तेन संपन्ना अतिरूपवती इत्यर्थः । तथा तद्वक्षः वक्ष:स्थलं कुचाभोग:, श्रिया औन्नत्यकाठिन्यादिशोभासंपत्त्या अवनं प्रीणनं भवति यस्मात् तत् श्रयवनभुवम् । एवं सति केशवः केशिनं असुरं वाति हन्ति इति केशवः, यद्वा कः ब्रह्मा च ईशः ईश्वरश्व तौ ध्येयत्वेन अस्य स्तः इति केशवः, इह मंजरीसन्निधौ, सन्निहितः समीपे वर्तमान:; कथं, तस्याः विषये, सिन्धोः समुद्रस्य अपत्यं स्त्री सैन्धवी लक्ष्मी: तस्या: शंकां वितर्क इयं लक्ष्मीरिति भ्रमं, उज्झति त्यजति, न कथमपि इति भावः । तथाहि केशवः तामेव लक्ष्मीं मनुते इति तात्पर्यम् । अपि च श्लेषवलेन अपरोऽप्यर्थ: उद्दिष्टः, यथा - केशवः केशाः प्रशस्ताः सन्ति अस्य इति केशवः, ““ केशाद्वोऽन्यतरस्याम् । " (पा. ५।२ । १०९) इति वः, केशवान् केशपाशः इत्यर्थः, इह मंजरीशरीरे संनिहितः, तथा सा अतिरूपवती सिन्धुवत् चित्ताकर्षिणी । तस्या: वक्षः वक्ष:स्थलं श्रियः लक्ष्म्याः रूपलक्ष्म्याः इति भावः, अवनं रक्षणं, " प्रीणने रक्षणेऽवनम् । ” इति मंखकोशः, भवति यस्मात् तत्, लक्ष्म्याः समुद्रमथनेन जातत्वात् तस्य पितृत्वेन लक्ष्म्याः तत्र निवासाच्च समुद्रस्य तत्पालकत्वम्, अतः केशवसांनिध्यात् मनोहारिरूपवत्त्वात् लक्ष्मीनिवासात् च, लोकः इति शेषः, मंजरी विषये सिन्धोः अन्धेः समुद्रस्य संबंधिनीं सेंधवीं इयं सिन्धुः इति शंकां भ्रमं, भ्रमस्य सादृश्यमूलकत्वात्, तच्चात्र श्लेषेण निर्व्यूढं, कथं त्यजति । अत्र श्लेषः ससंदेहश्च अलंकारौ ॥ ९७९॥ पंचभिः अद्भुतफलां तस्याः विस्मापकतां वर्णयति उदयतीत्यादिभिः । गजेन्द्रगतिः कुचनितंबभारेण अलसतया हस्तिवत् मन्दगामिनी अलसंगमना वा सा, आत्मनि स्वविषये, पंडितानां पण्डा शास्त्रोज्ज्वला बुद्धि: सा संजाता अस्य इति पंडित:, तारकादित्वात् इतच्, तेषां विदुषां कौतुकं कुतूहलं, कथं न, उदयति उत्पादयति
९७९ च्यवन (गो. प. स्तं ) [ केवलं लिपिसारूप्य मोहादर्थरहितः पाठः ] । कथमुदयति सैन्धवी शङ्का (गो) सैन्धवीशङ्काम् ( प. स्तं ) ९८० गति ( प ) | मुपसर्ग: ( गो. स्तं )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com