________________
कुटनीमतम् । स कथं न स्पृहणीयो विषयरतैस्तन्नितम्बविन्यासः। शान्तात्मनाऽपि विहितं विश्वसृजा गौरवं यस्य ॥ ९७५ ॥ स्मरणाद्यस्योत्पत्तिः सुमनस इषवोऽबलाश्रया शक्तिः ।
सोऽपि व्यङ्गः प्रहरति, धातुरहो चित्रमाचरितम् ॥ ९७६ ॥ इति भावः । तथा च कश्चित् राज्ञः पुरुषः प्राप्तोन्नतपद: अप्रतिबद्धक्रियः सन् प्रजाः पीडयन् दृष्टिगोचरतां गतः विवेकिभि: न परिह्रियते अपि तु अपराधितया संगृह्यते एव इति गम्यत्वेन समासोक्तिरलंकारः ॥ 'कः स्प्रक्ष्यति' इति पाठे तादृशं आदौ औद्धत्येन लोकपीडाजनकं कालातिक्रमेण पतितं भ्रष्टं कः स्प्रक्ष्यति तस्य स्पर्श कोऽपि न करिष्यति इत्यर्थः; यतः “कासां न सौभाग्यगुणोऽङ्गनानां नष्ट: परिभ्रष्टपयोधराणाम् ॥" इति, तथा-" पतितानां संसर्ग त्यजंति दूरेण निर्मला गुणिनः । इति कथयञ्जरतीनां हारः परिहरति कुचयुगलम् ॥” (४१८३ ) इति वाग्भटालंकारे । अतः इदानीमेव तदुपभोग्यं इति भावः । अपि च पतितं स्वकर्महीनं पातकिनं यद्वा स्वाधिकारात् भ्रष्टं पूर्व उन्नतं पदमवाप्य प्रजापीडकं न कोऽपि स्पृशति इति अस्मिन् पाठे समासोक्तिः ॥ उभयोः पाठयोः प्रथमस्य शृंगारगर्भत्वात् सः श्रेयान् ॥ उत्तरार्धे ' एवं ' इत्यत्र 'एक' इति पाठं स्वीकृत्या एकं असहायमेव, इदं स्तनयुगलेनान्वेति ।[इति टिप्पणी । " स्वकर्महीने पतितो गते भ्रष्टेऽपि च त्रिषु । " इति मंखकोश: ॥ प्रकृतार्याया: वैपरीत्यभावेन काचित् सूक्ति:-“ सुवृत्तस्यैकरूपस्य परप्रीत्यै कृतोन्नतेः । साधोः स्तनयुगस्येव पतनं कस्य तुष्टये ॥ " इति ॥ ९७४ ॥ कामिनां अतिप्रेमास्पदत्वेन वर्णितमपि (आ. ९६६) नितंबं पुनः वर्णयति स इति । अनेन तस्य कामातिशयः सूचितः । तस्याः सः नितंबस्य कटिपश्चाद्भागस्य विन्यासः रचना, विषयरतैः-पुरुषं विसिनंति बध्नन्ति ते विषयाः रूपरसादयः इंद्रियार्थाः तेषु रतैः आसक्तैः, कथं न स्पृहणीयः अभिलषणीयः, यस्य नितंबस्य नतस्य, शान्तात्मना शान्त: विषयेभ्यो व्यावृत्तः विरुद्धः वा आत्मा चित्तवृत्तिः यस्य तादृशा, अपि, विश्वसृजा विधात्रा, गौरवं-गुरोः भावः गुरुत्वं महत्त्वं भारवत्त्वं, पक्षे आराध्यत्वं पूज्यत्वं, विहितं कृतम् । नितंबस्य गौरवं प्रशस्तं, तदुक्तं स्कांदे काशीखंडे-" नितंबबिंबो नारीणामुन्नतो मांसलः पृथुः । महाभोगाय संप्रोक्तः" इति । (पृथुः गुरुः ।). तथा च तादशगौरवान्विते नितंबे अस्मत्सदृशां कामिनां अभिलाषः अनिवार्य एव. इत्याशयः । श्लेषमूलिका काव्यार्थापत्तिः अलंकारः, अप्राकरणिकात् नितंबस्य विधिविहितगौरववृत्तान्तात् प्राकरिणकार्थस्य आपतनात् ॥ ९७५ ॥ कामस्य तद्वारा धातुः.
९७५ गौरवं यत्र (सुभा०)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com