________________
३९४
दामोदरगुप्तविरचितं
चिरमपि विकल्प्य निश्चितिरियमेव स्थाप्यते, न गतिरन्या । तन्निर्माणे जाता लावण्यमयाः कणा विधेरणवः ॥ ९७३ ॥ आसाद्य समुच्छायं तस्याः स्तनयुगलमविहतप्रसरम् । क्षपयति यज्जनमेवं कस्त्यक्ष्यति तद्विवेकवान् पतितम् ॥ ९७४ ॥ खलु योषित्संनिधिः संनिधेयः । हरति हि हरिणाक्षी क्षिप्रमक्षिक्षुरप्रैः पिहितशमतनुत्रं चित्तमप्युत्तमानाम् || " इति । ( क्षुरप्र : घासच्छेदनास्त्रं, 'खरपी' इति प्रसिद्धं, तनुत्रं कवचम् ।) इदं उपदेश:, तल्लक्षणं च - " हितैषितयाऽज्ञातज्ञापनमुपदेशः । " इति कर्णभूषणे ॥९७२॥ तस्याः स्फुरल्लावण्यायाः लावण्यातिशये कारणं कल्पयति चिरमिति । सुदीर्घकालमपि, विकल्प्य तुल्यबलान् विरुद्धान् पक्षान् विचार्य, इयमेव उत्तरार्धेन वक्ष्यमाणा, निश्चिति: निश्वयः संदेहरहितं ज्ञानं, स्थाप्यते दृढीक्रियते; न अन्या गतिः न अन्यः कोऽपि मार्गः पक्षः इति यावत् निश्चयकोटिं अवगाहते । तामेवाह तदिति । तस्याः निर्माणे देहघटने, विधेः स्रष्टुः प्रजापतेः, अणवः तद्देहरूपद्रव्योपादानकारणीभूताः परमाणवः, लावण्यमयाः कणाः सूक्ष्मांशवः, जाताः अभूवन् । लावण्यमया:लावण्यं तु " मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदंगेषु लावण्यं तदिहोच्यते ॥ ” इति ( रसार्णवसुधाकरे १।१८१ ) लक्षितं, तस्य प्राचुर्ये यत्र ते, प्राचुर्यार्थे मयट् ।” सर्वेऽप्यवयवाः केवलं लावण्यमयाः इति भावः । एवं वासवदत्तायां कंदर्पकेतुमुद्दिश्य -- “ वेधसा जगत्रयसमवायिरूपपरमाणूनादाय विरचितो - ऽयमिति । " इति । अत्र साध्यस्य तल्लावण्यातिशयस्य प्रतीतये अलौकिकसाधननिर्देशात् अनुमानालंकारः, णकारस्य असकृदावृत्तेः अनुप्रासश्च ॥ ९७३ ॥ तस्याः स्तनयुगलमुद्दिश्य आह आसाद्येति । तस्याः स्तनयुगलं कुचद्वंद्वं, अविहतप्रसरं प्रति - दिनं निर्बाधं व्यायामं प्राप्नुवत्, समुच्छ्रायं उन्नतिं, आसाद्य प्राप्य, तथाहि आभोगि उन्नतं च स्तनयुगलं प्रशस्तं, तदुक्तं - " सुवृत्तमुन्नतं पीनमदूरोन्नतमायतम् । स्तनयुग्मं सदा शस्तं " इति भविष्यपुराणे, यत् युग्मं कर्तृ, जनं लोकं निरपराधिनं, एवं अविहतप्रसरं यथाप्रसिद्धं यथाप्रत्यक्षं वा, क्षपयति क्षि क्षये इत्यस्य णिजन्तं रूपं दौर्लम्येन क्षीणं करोति इत्यर्थः, तत् युगलं कर्म, पतितं लक्षणया समागतं इत्यर्थः, चक्षुषोः इति वा अध्याहार्य, तेन दृष्टं इत्यर्थः, विवेकवान् सारासारयोः लाभालाभयोः वा ज्ञाता, कः पुरुषः, त्यक्ष्यति परिहरिष्यति, न कोऽपि, अपराधिनो ग्रहणं युक्तमेवेति
अत्र "
I
९७३ गतिरस्याः (स्तं ) । लावण्यसरित्कणा ( १ . स्तं ) ९७४ मवहितप्रसरम् (गो) । यज्जन मेकं ( गो ) । कस्त्यक्ष्यति तद्वि ( प. स्तं ) कः स्प्रक्ष्यति (गो) । यतितम् (स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com