________________
३९०
दामोदरगुप्तविरचितं
सा स्रग्धरा सुवदना प्रहर्षिणी सैव सैव तनुमध्या ।
न करोति कस्य विस्मयमिति रुचिरा मज्जुभाषिणी सैव ।। ९६८ ।। अनुकुर्वत्या कन्यां तथातथा नायकस्तया दृष्टः | येन जरत्स्वप्यटनी धनुषः स्पृष्टा दशार्धवाणेन ॥ ९६९ ॥
I
असंख्यातानि–सहस्रपदं अनेकोपलक्षणं सहस्रपत्रं कमलमितिवत् - करा: किरणा: यस्य स सूर्य: तस्मादपि, अधिकं तापं संतापं विरहजन्यं मनोदेहयोः संतापं, जनयति उत्पादयति । पंचकरवती सहस्रकरतोऽप्यधिकं तापं जनयति इति आश्चर्यम् । करशब्दस्य श्लिष्टत्वेन श्लेषोत्थापितो विरोधालंकारः । ] वक्रभणित्या प्रशंसा ॥ ९६७ ॥ पुनः तस्या: अपरं आश्चर्यकरत्वं प्राह सेति । सा स्रग्धरा मालाधारिणी; सुवदना शोभनमुखी [प्रशस्तलक्षणमुखवती; तथाभूता सैव ] प्रहर्षिणी हर्षयित्री [ प्रकर्षेण हर्षस्य इष्टलाभजन्यानंदस्य दात्री; तादृशी सैव न तु अन्या; ] तनुमध्या सूक्ष्ममध्यभागा [ तनुः सूक्ष्मः स्थौल्यरहितः मध्यः कटिप्रदेश: यस्याः सा सुश्रोणिः; तथा ] रुचिरा सुंदरी [ मनोहरा ], मंजुभाषिणी मधुर भाषणशीला, सैव । तत्रैव एषां गुणानां समुच्चयेन वर्तित्वं, न तु भिन्नासु व्यक्तिषु इति भावः । स्रग्धरादयः छन्दोभेदाश्च । तथा च भिन्नभिन्नलक्षणानां स्रग्धरादीनां [ एकत्रैव ] समावेशे तस्याः विस्मापकत्वं युक्तमेव । [ स्रग्धरादीनां छन्दसां लक्षणानि तु - "भ्रम्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् । " " ज्ञेया सप्ताश्वषड्भिर्मरभनययुता लौ गः सुवदना ।” “ त्र्याशाभिर्मनजरगाः प्रहर्षिणीयम् ।" " त्यौ चेत्तनुमध्या ।” जभौ जौ गिति रुचिरा चतुर्ग्रहैः : । " सजसा जगौ च यदि मञ्जुभाषिणी ।” इति छंदोमंजर्याम् ॥ एवं बह्वीभि: असंगतिभिः तस्याः लोकोत्तरत्वं सूचितम् । अद्भुतो रस: । अत्र स्रग्धरादीनां गुणानां यौगपद्येन अवस्थानेन समुच्चयालंकारः, श्लेषोत्थापित: द्रव्यस्य द्रव्येण विरोधात् विरोधालंकारश्च तयोः संसृष्टिः ॥ ९६८ ॥ एवंवर्णनपरस्य तस्य स्मृतिपथमागतं तस्याः नाटये अनुभूतं विशिष्टं उद्दीपकत्वं प्रकाशयति अनुकुर्वत्येत्यादिम्यां द्वाभ्याम् । ] कन्यां [ अनूढां ] रत्नावलीमित्यर्थ:, [ अनुकुत्या तद्भूमिकापरिग्रहे तां अभिनयंत्या, तथातथा तैस्तैः प्रकारैः, बहुत्वे द्विरुक्तिः, ] नायकः वत्सराज इत्यर्थः, [ तया मंजर्या, दृष्टः अवलोकित:, तथाच “ अलसवलितैः प्रेमार्द्राद्वैर्मुहुर्मुकुलीकृतैः निमेषपराङ्मुखैः हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणै: "
66
९६८ ’रास्तु नाम सैव तनु "ति कथं विस्मयमनिन्दिता चारुहासिनी सैव (प. स्तं) ९६९ दायक (प) । ज्व (ज ?) रत्सुघटनी (प) [ अक्षरभ्रमात् पाठः ] ज्वरस्त्वघटनी (स्तं )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com