________________
कुट्टनीमतम् ।
३८९ त्रिकरो मध्यविभागो बाहोयुगलं करद्वयोपेतम् । जनयति तदपि मृगाक्षी सहस्रकरतोऽधिकं तापम् ॥ ९६७ ॥
......... --...-------.- - - ..... --------....-...२।४५) इति ॥९६५॥ कामुकैरतिस्पृहणीयं नितम्ब प्रशंसति य इति । यः, तपोनिरतः तपः “भिक्षोपवासनियमार्कमरीचिदाहैहोपशोषणविधिः” ( प्रबोधचं० २।२२) तस्मिन् नितरां देहेन चित्तेन च रतः आसक्तः सन् , ] सुरताया: देवत्वस्य आत्यै लब्ध्यै, [ शैलेन्द्रस्य सिद्धसेवितहिमालयादिपर्वतस्य, नितंबं पर्वतकटिप्रदेशं तन्मध्यभागं, अधित्यकायां अद्रेः उपरिभूभ्यां शीतातपवाताद्याधिक्यात् उपत्यकायां ( अद्रेः मूलासन्नभूम्यां ) च जनसंसर्गहिंस्रादिभयवत्त्वात् च ते त्यक्त्वा इति भावः, सेवते आश्रयते, स्वर्गसुखप्राप्तये निर्विघ्नं तपोनुष्ठानाय इति भावः; सोऽपि तादशोऽपि, तस्याः तन्वंग्या:, नितम्ब-निभृतं अत्यंतं तम्यते कांक्ष्यते कामुकैः इति यद्वा नितरां ताम्यति ग्लायति सुरतसंमः इति नितंब: कटिपश्चाद्भाग: रमणः, नितंबस्य द्वित्वप्रत्यक्षात् जात्यभिप्रायमेवैकवचनं, यद्वा एकस्यैव अर्धद्वयमयत्वात् द्वित्वेन प्रत्यक्षत्वं इति बोध्यं, तं समवलोक्य दृष्ट्वा, तस्मै एव फलाय-] सुरतात्यै सुरतस्य (संभोगस्य ) प्राप्त्यै, [ “ सुरतं स्यान्निधुवने, देवत्वे सुरता मता ।" इति मेदिनी, स्पृहयति वाञ्छति, " स्पृहेरीप्सितः ।" (पा. १।४।३६ ) इति चतुर्थी । तपस्वी अपि तस्याः नितंबसौन्दर्येण आकृष्टः सन् सुरताय उत्कंठितो भवति इति भावः । उक्तं हि शृंगारशतके-" मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदंतु । सेव्या नितंबा: किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् || " ( ३६ ) इति, (स्मरस्मेरा: मदनमदोत्कटाः । सति वैराग्ये गिरिनितंबा:, अन्यथा विलासिनीनितंबा: सेव्याः इति भावः ।) प्रकृते विरागिभिः अपि तन्नितंबाय स्पृह्यते इति विशेषः उक्तः, तेनास्याः व्यतिरेकः सूचितः । 'नितंब सुरताप्त्यै । इति दलद्वये अन्यार्थानां वर्णानां श्रुतिक्रमैक्येन यमकं, शब्दश्लेषश्च, इति द्वयोः शब्दालंकारयोः संसृष्टिः ॥ ९६६ ।। एवंविधसौंदर्येऽपि विप्रलंभे तस्याः संतापदत्वमाह त्रिकर इति । तस्याः मध्यविभागः कट्युदरादिप्रदेशः, त्रिकर: त्रिकं पृष्ठास्थ्नोऽध ऊर्वोः संधौ त्रिसंघ राति ददातीति 'त्रिकरः त्रिकप्रदेशघटकः, यद्वा कर: राजग्राह्यनियतधनभाग: बलि:, श्लेषे बवयोरभेदात् बलिः, त्रयः करा: वलयः यस्य सः] त्रिकरः वलित्रययुक्तः, [बाह्रोः भुजयोः युगलं द्वयं, सुः शब्दः अप्यर्थकः, करद्वयवत् , आस्कंधात् अंगुल्यन्तो भागः बाहुः आमणिबंधादंगुल्यन्तो भाग: करः इति बाहुकरयोः भेदः; तदपि तथापि, सा मृगाक्षी हरिणनयना,] तथा च [ यस्याः एवं ] कथमपि पंचकरत्वनिष्पत्ति: [सा, सहस्रकरतः सहस्राणि Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com