________________
३८८
दामोदरगुप्तविरचितं यः शैलेन्द्रनितम्बं सुरताप्त्यै सेवते तपोनिरतः ।
स्पृहयति सोऽपि नितम्ब सुरताप्त्यै समवलोक्य तन्वङ्गयाः ९६६॥ भ्रमरकाः ललाटालकाः यत्र तत् ; कमलपक्षे सन्तः वर्तमाना: अलयः एव कुत्सिता अलयो वा अलिकाः, स्वार्थे “ कुत्सिते " (पा. ५।३।७४) इति वा कन् , भ्रमरा यत्र तत् । तथा अपेतदोषं अपेताः अविद्यमानाः दोषाः रोमशत्वपरुषत्वनिर्मासित्वदु. र्गन्धित्ववक्रत्वविरूपतादयः यत्र तत् ; कमलपक्षे-अपेता दूरीभूता दोषा रात्रिः यस्मात् तत् , तस्य दिवसे एव विकासभावात् । तथा सविभ्रम विभ्रमैः विलासैः शृंगारचेष्टाभि: सहितं, विभ्रमलक्षणं च-"क्रोधः, स्मितं, च कुसुमाभरणादियाच्या, तद्वर्जनं च, सहसैव विमण्डनं च । आक्षिप्य कान्तवचनं लपनं सखीभिर्निष्कारणस्थितगतेन, स विभ्रमः स्यात् ॥” इति (नागरसर्वस्वे १३।१३), ( विमण्डनं विशेषेण मंडनम् ।) कमलपक्षे-विशेषेण भ्रमः भ्रान्तिः चलनं तरंगवाताद्याहतिभिः तेन सहितं, यद्वा वीनां पक्षिणां भ्रम: संचारः तेन सहितम् । मधुमत्-मधु अधरोष्ठवर्तिरसविशेषः क्षौद्रवन्मिष्टः, मदिरावत् मादकः, दुग्धवत् पुष्टिद: इति तत्संपन्नं, यद्वा मधु मद्यं तत्पानज: यः मदः तेन आ समन्तात् रक्तं रक्तवर्ण; कमलपक्षे-मधु पुष्परस: मकरन्दः तद्वत् । आतानं सौकुमार्यातिशयेन ईषद्रक्तवर्ण, तेन तस्याः शुद्धरक्तपुष्टत्वं अतिहृद्यत्वं च सूचितम् ; कमलपक्षे-आ समंतात् रक्तं, अनेन रक्तोत्पलं कोकनदं अभिप्रेतं इति शेयम् । स्वर्गभ्रष्टानां पुण्यशेषोपभोगः अस्याः वदनगताधरामृतपानेन एव निवर्त्यते इति भावः, तथाहि " प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वती: समाः । शुचीनां श्रीमतां गेहे योगभ्रछोऽभिजायते ॥" (गीता ६।४१) इति भगवदुक्तौ पूर्वोपचितभोगवासनाप्रादुर्भावात् विषयभोगेच्छायाः पुण्यशेषस्य च शापनात् । एवं तस्या अत्यंताभिलषणीयता उक्ता। अत्र सदलिकं इत्यादिभिः श्लेषोपमा, प्रकृते अर्थश्लेषस्य सत्त्वात् ॥ प्रकृते पद्ममुखयोः उपमानोपमेयभावं अवलंब्य तत्पाने काश्चन नायकोक्तयः । तत्र अप्राप्तयोगस्य यथा" मदघूर्णितलोचनषट्चरणं धनरागमनंगकराभरणम् । कमलाति मुग्धवधूवदनं सुकृती पिबतीह सुधासदनम् ॥” इति, (क्षेमेंद्रस्यायम् ।) तथा नागानंदनाटके नायकस्योक्तिः-"दिनकरकरामृष्टं बिभ्रत् द्युतिं परिपाटलां दशनकिरणैरुत्सर्पद्भिः स्फुटीकृतकेसरम् । अयि मुखमिदं मुग्धे ! सत्यं समं कमलेन ते, मधु मधुकरः किन्त्वेतस्मिन् पिबन् न विभाव्यते ॥ " ( ३।१३ ) इति । तथा कस्यचित् तथाविधस्यैव प्रकृतार्थवैपरीत्यवैचित्र्येण-" स्वर्गप्राप्तिरनेनैव देहेन वरवर्णिनी । अस्या रदच्छदरसो न्यकरोतितरां सुधाम् ॥” इति ॥ कस्यचित् प्राप्तसंयोगस्य यथा-" नलिन्या इव तन्वंग्यास्तस्याः पद्ममिवाननम् । मया मधुव्रतेनेव पायंपायमरंस्यत ॥ " (काव्यादर्श
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com