________________
कुट्टनीमतम् ।
सुमनोभिः परिकरिता मृगशावकतरलचक्षुषस्तस्याः । कामोचितफलहेतुर्देहभृतां दीर्घिका वेणी ।। ९६४ ॥ कमलमिव वदनकमलं पिबन्ति तस्यास्त्रिविष्टपभ्रष्टाः । सदलिकमपेतदोषं सविभ्रमं मधुमदाताम्रम् ॥९६५ ॥
३८७
अत्र असंबंधे संबंधातिशयोक्तिरलंकारः ॥ ९६३ ॥ वर्णनाय उपात्तेषु तस्याः मुख्यांगेषु आदौ वेणीं वर्णयति सुमनोभिरिति । मृगशावकतरलचक्षुषः मृगशावकस्य हरिणपोतस्य नेत्रे इव तरले चंचले विलोले चक्षुत्री यस्याः तस्याः, अनेन तरलाख्यो मनोहरो दृष्टिविकारः तस्या: स्वाभाविक इति सूचितं, तदुक्तं - " तरलं तदिति प्राहुर्लोलतारकनीनिकम् ।” इति । तस्याः मंजर्या:, सुमनोभिः पुष्पैः, ] परिकरिता ग्रथिता, [ दीर्घिका दीर्घा, स्वार्थे कन्, केशानां दीर्घत्वं लंबत्वं प्रशस्तं वेणी केशबंधविशेषः, "वेणी सेतुप्रवाहयोः । देवताडे केशबन्धे " इति हैम: । ( देवताड : वृक्षविशेष: 'देताड ' इति प्रसिद्ध: । ) वर्णिता च सा उत्प्रेक्षांगत्वेन माघकाव्ये - " सीमं - त्यमाना यदुभूभृतां बलैर्बभौ तरद्भिर्गवलासितद्युतिः । सिन्दूरितानेकपकं कणांकिता तरंगिणी वेणिरिवायता भुवः || ” ( १२/७५ ) इति, ( गवलं माहिषविषाणं, कंकणं शेखरः शिरसि धृता पुष्पस्रक्, तरंगिणी नदी, प्रकृते च सा यमुना, वेणिशब्देन स्रोतश्च केशबंधश्च विवक्षितः । अत्र वेण्या : सीमंतवत्त्वं, कृष्णत्वं, पुष्पयुक्तत्वं दीर्घत्वं च गुणाः उपलक्षिता: । ) देहभृतां प्राणिनां कामोचितफलहेतुः कामस्य कामदेवस्य यत् उचितं योग्यं फलं भोग्यं तस्य हेतुः कारणं, सा प्रबलस्मरविकारजनिका इत्यर्थः, तेन वेण्या : उद्दीपनविभावत्वं सूचितम् ॥ ९६४ ॥ अवयवेषु तस्या: उत्तमाङ्गं वर्णयन् तद्भोगप्राप्तेः दुर्लभत्वं उपमया वर्णयति कमलमिति । तस्याः मञ्जर्याः, वदनकं - वदनेन ( उक्त्या ) अन्यः अवक्षिप्यते कुत्स्यते इति वदनकं, " अवक्षेपणे कन् ” (पा. ५।३।९५ ) इति कन्प्रत्ययः, चतुरोक्तिगर्वितं वक्त्रं इत्यर्थः, यद्वा वदनमेव वदनकं तत् ; त्रिविष्टपभ्रष्टाः त्रिविष्टपात् स्वर्गात् भ्रष्टाः च्युताः, " क्षीणे पुण्ये मर्त्यलोकं विशंति " इति स्मृते: ' स्वल्पीभूते सुचरितफले स्वर्गिणो गां गता ये ' ते, स्वर्गभ्रष्टाः अर्थात् पुण्यवंतः, अलं अतिशयेन, वित्रन्ति धयंति अर्थात् वदनस्थाधरोष्ठपानं कुर्वन्ति । अनेन तादृशां भ्रमरोपमत्वं ध्वनितम् । कीदृशं वदनं इत्युपमयाह कमलमिव । श्विविशेषणैः साधर्म्यमाह सदेत्यादिभिः । सदलिकं - सत् शोभनं अलिकं अल्यते भूष्यते चन्द्रारव्यतिलकेन इति ललाटं यत्र तत्, यद्वा सन्त: अलिका:
"
९६४ परिवरिता ( प )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com