________________
३८६
दामोदरगुप्तविरचितं
सुन्दोपसुन्दनाशः फलमात्मभुवस्तिलोत्तमासृष्टेः । जनमृतये तां सृजता किं दृष्टं सुरहितं तेन ॥ ९६३ ॥
T
द्योत्यते, भ्रूभंगादिषु बहुषु स्थलेषु, विहिताश्रयः कृतस्थितिः, कायव्यूहसिद्धिमन्तं योगिनं मुक्त्वा एकशरीरिण: बहुत्र अवस्थिते: असंभवात् । अद्भुतः रसः व्यंग्यः । भ्रूभंगादयः सर्वेऽपि कामोद्दीपका: इति भाव:, तेन च तस्याः सर्वातिशायिकामोद्दीपकत्वं ध्वनितम् ॥ अत्र विशेषालंकारः, तल्लक्षणं च काव्यालंकारे (९/७ ) –“ यत्रैकमनेकस्मिन्नाधारे वस्तु विद्यमानतया । युगपदभिधीयते ऽसावत्रान्यः स्याद्विशेष इति ॥” इति। ( पर्यायेणावस्थाने तु पर्यायालंकारः भिन्न: | ) || ९६२ ॥ वितर्कद्वारा तस्याः श्लाघ्यं लोकोत्तरं सौंदर्य सूचयति सुंदेति । आत्मभुवः जगत्स्रष्टुः ब्रह्मण:, तिलोत्तमा तदाख्या अप्सरसः स्वोपादानभूतैः सर्वरत्नानां तिलैः तिलप्रमाणे: अंशै: उत्तमा इति अन्वर्थनाम्नी, तदुक्तं महाभारते - " तिलंतिलं समानीय रत्नानां यद्विनिर्मिता । तिलोत्तमेति यत्तस्या नाम चक्रे पितामहः || ” ( १।२१२ । १७ ) इति, तस्याः सृष्टेः निर्माणस्य, फलं प्रयोजनं लाभो वा, सुंदस्य उपसुंदस्य च, सुंदोपसुंदनाम्नोः निकुंभपुत्रयोः असुरयोः नाशः मृत्युः, तद्वारा च ताभ्यां पीडितानां सुराणां सुखप्रापकत्वं च इति शेषः । एतत्कथा महाभारते आदिपर्वणि २०९-२१२ अध्यायेषु विस्तरेण द्रष्टव्या । सा संक्षेपतस्तु कथासरित्सागरे, यथा - " सुंदोपसुंदनामानौ भ्रातरौ द्वौ बभूवतुः । असुरौ विक्रमाक्रान्तलोकत्रितयर्दुजयौ ॥ तयोर्विनाशका - मश्च दत्त्वाज्ञां विश्वकर्मणा । ब्रह्मा निर्मापयामास दिव्यनारीं तिलोत्तमाम् ॥ रूपमालोकितुं यस्याश्चतुर्दिक्कं चतुर्मुखः । बभूव किल शर्वोऽपि कुर्वाणायाः प्रदक्षिणम् ॥ सा पद्मयोनेरादेशात्पार्श्व सुंदोपसुंदयोः । प्रलोभनाय प्रययौ कैलासोद्यानवर्तिनोः ॥ तौ चासुरौ जगृहतुस्तां दृष्ट्टान्तिकमागताम् । उभावप्युभयोर्बाहोः सुंदरीं काममोहितौ ॥ परस्परविरोधेन हरंतौ तां च तत्क्षणम् । प्रवृत्तसंप्रहारत्वाद्वावपि क्षयमीयतुः ॥ " ( १५।१३५–१४० ) इति ॥ परंतु, तां मंजरी, जनमृतये जनानां तत्सौंदर्यावलो - कनेन मोहितानां, तस्या: अयोगे मोहातिशयात् विप्रलंभस्य अभिलाषादिनवावस्थाः अनुभूयापि मरणाख्याया दशम्याः अपि असह्यविरहपीडान्तकत्वबुद्धया अंगीकारेण, मृतये नाशाय, सृजता निर्मितवता, तेन ब्रह्मणा स्रष्ट्रा, किमिति प्रभे, सुरहितं सुराणां असुरभिन्नानां देवानां हितं पथ्यं सुखकरं दृष्टं मनसि धृतं विचारितम् ; तत् तर्कितुम प्यशक्यमिति भाव: । प्रभेन तद्द्द्वारा जनमारणेन न किमपि सुरहितं संभाव्यते इत्याक्षिप्यते ॥
९६३ मात्मसुव (प.)। सृष्टौ ( प. स्तं ) । मृत एतां ( प ) [ दुष्टः पाठः ]
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat