________________
कुट्टनीमतम् ।
३८३ दावानलसन्तापानियोतं गहनवीरुधोऽभिमुखम् । यो निरुणद्धि स धन्यः सूकरमेकप्रहारेण ॥ ९५६ ॥ घनक्षोदरसुप्तं समुपेत्य स्वैरमकृतपदशब्दम् ।
व्याधवर एव कुरुते निर्जीवं हेलया शशकम् ॥ ९५७॥ गृह्णति विना शरप्रहारं जीवन्तमेव हस्तगतं कुर्वति । तथाहि अपरेभ्य: प्राणिभ्यः हरिणानां लघुशरीरतया वेगातिशयेन धावतां शरव्यत्वं दुष्कर, तत्रापि तेषां जीवतामेव ग्रहणं सुदुष्करं, तच्च गीतेन साध्यं इति मृगयासक्तानां संगीतज्ञानं उत्कर्षदं, तच्च तादृशां सर्वेषां विरलं इति सूचितम् । हरिणानां गानात्यासक्तिः प्रसिद्धा, तदुक्तं-" वनेचरस्तृणाहारश्चित्रं मृगशिशु: पशुः । लुब्धो लुब्धकसंगीते गीते त्यजति जीवितम् ॥ " (संगीतरत्नाकरे १।२९) इति । हस्तिसर्पमयूरादयः केचन प्राणिनस्तु वीणामुरलीमृदंगादिवाद्यविशेषाकर्णनेन वशीभवंति, हरिणास्तु कण्ठजगीतश्रवणेन इति भेदः । स्वभावोक्तिः परिसंख्या च अलंकारः ॥ ९५५ ॥ चातुर्यविशेषापेक्षिणी सूकरमृगयां आह दावेति । दावस्य वनस्य, " दवो दावश्च पुंस्येव वनेऽपि वनपावके ।" इति विश्वलोचनः, तस्य यः अनल: अमिः स दावाग्निः, तस्य संतापात् प्रचंडतापेन, गहनस्य काननस्य या वीरुध् लता तस्याः वीरुधः, पंचमी, जातावेकवचनं च, लतानिबिडजालात् स्वनिवासभूतात् इत्यर्थः, अभिमुखं स्वस्य संमुखं, निर्यातं विनिर्गत्य उपस्थितं, सूकरः वराहः, 'शूकरः' इत्यपि शब्दः, 'सुवर ' इति भाषायां प्रसिद्ध: बहिनिर्गतदंत: क्रूरपशुविशेषः तं, एकप्रहारेण कुंत(भाला )जातीयशनस्य एकेनैव आघातेन, य: मृगयाकोविदः, निरुणद्धि स्वस्य उपरि आक्रमणे असमर्थ करोति, स: धन्य: प्रशंसनीयः ॥ ९५६ ॥ जात्यैव अतिभीरूणां शशकानां मृगयाविशेषमाह घनेति । घनानां गाढानां निबिडतया स्थितानां वृक्षाणां यत् उदरं मध्यभाग: तत्र सुप्तं अत्यंतगूढभागे निलीय निर्भीकतया शयानं, शशकः शशः 'ससलो' इति भाषायां प्रसिद्धः अतिलघु: चतुष्पात् , तं, स्वैरं मंदगत्या, न कृतः पदानां पदनिःक्षेपानां शब्दः यथा स्यात्तथा अश्राव्यपदरवं, यथा आगमनं लक्षितं न भवेत् तथा, समुपेत्य अतिसमीपं गत्वा, व्याधवरः व्याधः मगयुः 'पारधी' इति भाषायां, तेषु वरः श्रेष्ठः कुशलः, एवेति न अन्यः साधारण: इति सूच्यते, एतत्कर्मणः दुष्करत्वात् , हेलया यत्नं विना अनायासेन, निर्जीवं गतप्राणं
__९५६ निर्यान्तं (गो)। वीरुधाभि (गो) । स वन्द्यः (प. स्तं) ९५७ वनकक्षो (प) घनकक्षो (स्तं. गो २) ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com