________________
३८२
दामोदरगुप्तविरचितं
मूले स्थितस्य निभृतं मृगयुभिरुच्चाट्य दौकितं निकटे । पातयतो मृगमुत्प्लुतमव्यपदेश्यं सुखं किमपि ॥ ९५४॥ गीतश्रवणोत्कर्ण निश्चलतृणकवलगर्भमुखहरिणम् ।
उपवेशितमस्पन्दं स्पृहणीया एव गृहन्ति ॥ ९५५ ॥ णो याचके बाणे " इति शाश्वतः, क्षिपति मुञ्चति, तं शरव्यतां नयति इत्यर्थः । लघुक्रियस्यैव मृगयायां इष्टप्राणिवधसिद्धेः तस्य धन्यत्वम् ॥ सन्दानितकं युग्मं पूर्व व्याख्यातम् (७९२ आ. टी.) ॥ ९५३ ॥ एवं अश्वाधारोहेण पशु अनुसृत्य क्रियमाणां मृगयां वर्णयित्वा, पुरुषेण कस्मिंश्चित् एकस्मिन् स्थाने स्थित्वा मृगया क्रियते तां वर्णयति मूले इति । यस्य कस्यचित् उचितस्य महतः वृक्षस्य, मूले मूलभागे, निभृतं मृगाणां शंकानिवृत्त्यर्थं वृक्षपत्रादिभिः गूढं यथा स्यात्तथा, स्थितस्य पुरुषस्य, निकटे समीपे, मृगयुभिः मृगान् वधार्थ यातीति मृगयुः व्याधः ' शिकारी ' इति भाषायां, तैः, उच्चाट्य स्थाल्यादिवादनचीत्कारादिभिः भापयित्वा, ढौकितं समीपे प्रापित, उत्प्लुतं फालेन आगतं, मृगं मृग्यते तद्वधाकांक्षिभिः यद्वा मृगयते तृणादिकं इति मृगः पशुः तं, “ मृगः कुरंगेऽपि पशो मृगयामृगशीर्षयोः । हस्तिभेदेऽपि याञायां " ( मृगशीर्ष नक्षत्रविशेषः । ) इति विश्वलोचनः, पातयतः शरवेधेन भूमिपतितं कुर्वत:, किमपि इति अव्ययसमुदायः अनिवर्णनीयार्थकः, अव्यपदे. श्यं अनिर्वचनीयं सुखं आनंदः, जायते इति शेषः । अत्र मृगपदेन सिंहव्याघ्रादयः उग्राः हिंस्राः पशव: उद्दिष्टाः, येषां वधः प्राय: एकत्र वृक्षादौ स्थित्वा क्रियते ॥९५४॥ अन्याभ्यो विलक्षणां हरिणमृगयामाह गीतेति । गीतस्य संगीतस्य श्रवणाय कर्णयोः तद्धनिप्रवेशाय, उत्कर्ण उच्चैः कृतौ अवधानप्राप्त्यै करें येन स उत्कर्ण: तं, निश्चल: स्थिरः चर्वणक्रियायाः स्तंभितत्वात् तृणानां हरिणभक्ष्याणां कवलः ग्रासः गर्भे मध्ये यस्य तादृशं मुखं यस्य तं तादृशं हरिणं बहुव्रीहिगर्भो बहुव्रीहिसमासः, उपवेशितं गीतश्रवणाय आसीनतामुपगतं, तत्रापि अस्पन्दं श्रवणैकाग्येण चलनवलनादिरहितं, मृगाणामेतदवस्थावर्णनं नागानंदनाटकेऽपि, तथा-"विदूषकः-भो वयस्य, किन्नु खल्वेते ईषद्वलितकंधरा निश्चलमुखापसरद्दरदलितदर्भगर्भकवलाः समुन्नमितदत्तैककर्णा निमीलितलोचना आकर्णयन्त इव हरिणा लक्ष्यते ॥ नायक:-..'एते दन्तान्तरालस्थिततृणेकवलच्छेदशब्दं नियम्य व्याजिह्मांगाः कुरंगा: स्फुटललितपदं गीतमाकर्णयति ॥” ( १११३) इति । तादृशं स्पृहणीया: दुष्करकर्मकारित्वात् धन्या एव ___९५४ रुत्पाट्य ढौ (प. स्तं)। मव्यपदेशं (गो)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com