________________
३७८
दामोदरगुप्तविरचितं भरतमुतैरुपदिष्टं क्षितिपतिनहुषावरोधनारीणाम् ।
मन्ये ता अपि नाव्ये शोभासंदोहमीदृशं नापुः ॥ ९४६ ॥ तया या सिद्धिद्वयसंपत् आंगिकादिचतुर्विधाभिनये षडलंकारविशिष्टे विवर्जितपाठ्यघातस्थाने पाठ्ये च या सिद्धि: अदोषा सगुणा सालंकारा निष्पत्तिः सा सिद्धिद्वयं तस्य संपदा श्रिया, च इति अध्याहर्तव्यं, अनुकरणं नाट्यं, " अवस्थानुकृतिर्नाटयं"(११७) इति दशरूपके, धारां स्तुति, “धारा पंक्तौ द्रवद्रव्यस्रवेऽश्वगतिपंचके ।' 'भंगारादेश्व नालायां, धाराऽभ्यासे नुतावपि ।..." इति विश्वलोचनः, अभ्यतीतं अतिक्रम्य वर्तते, दृष्टनाट्यगुणगणस्य प्रशंसनं कर्तुं अस्माभिः अशक्यं इत्यर्थः ॥ ' अनुकरणे ह्यभिनीता(तं?) सिद्धिद्वयसंपदा मनो दूरम् ।' इति स्तं.पुस्तके उत्तरार्धस्य पाठः, तत्र अनुकरणे अस्माकं प्रेक्षकाणां मन: चेतोवृत्तिः दूर अत्यर्थ, अभिनीतं हृतं इत्यर्थः, अन्यत् समानम् ॥ ९४५ ॥ नाट्यप्रशंसां उपसंहरति भरतेति ! भरतसुतैः कोहलादिभिः (८२ आ. टी. ), क्षितिपतेः पृथ्वीनाथस्य नहुषस्य तदाख्यस्य चंद्रवंशीयराजस्य, अवरोधनारीणां अन्तःपुरसुंदरीणां, उपदिष्टं शिक्षितं, इदं नाट्यं इति शेषः । तथाहि-नहुषः कदाचित् पराक्रमेण पुण्येन च स्वर्गराज्यं प्राप्नोत् , तत्र च नाट्यं अपश्यत् । तेन तत् पृथिव्यामपि स्वनगरे द्रष्टुं तस्य अभिलाषोऽभूत् । तेन देवाः प्रार्थिताः । तै: प्रेरित: स स्वाभिलाषं पूरयितुं आचार्य भरतं व्यजिज्ञपत् । तेन तदंगीकृत्य स्वपुत्रादयः पृथिव्यां अवतारिताः । तैश्च तत् नाट्यं नहुषान्तःपुरनारीणां शिक्षितम् । ततश्च भूलोके नाट्यावतारोऽभूत् इति कथा । अस्याः विस्तरः भरतीये नाट्यशाने अंतिम सप्तत्रिंशेऽध्याये द्रष्टव्यः । उक्तं च तत्र-" . . 'नहुषो नाम पार्थिवः (१)। प्राप्तं वा (प्राप्तवान् ?) देवराज्यं हि नयबुद्धिपराक्रमैः (२)। 'कृतांजलि: प्रयोगार्थी प्रोक्तवान् स सुरान्नृपः । (४)। .''प्रोक्तवांस्तु ततो मां तु नृपतिः स कृतांजलिः ॥(७)॥ इदमिच्छामि भगवन्नद्य मु( नाट्यमू )ऱ्या प्रवर्तितम् । (८1) सुताश्चाहूय संप्रोक्ताः ‘गम्यतां सहितभूमि प्रयोक्तुं नाट्यमेव हि । 'ततश्च वसुधां गत्वा नहुषस्य गृहे द्विजाः । स्त्रीणां प्रयोग बहुधा बुद्धिवंतो यथाक्रमम् ।" इत्यादि । ता: नहुषत्रियः, अपिना नाट्याचार्यभरतपुत्रशिष्या अपि इति सूच्यते, नाट्ये अनुकार्यवेषावस्थाद्यनुकरणात्मकनटकर्मणि, ईदृशं यथाऽस्मिन्प्रयोगे मया दृष्टं, शोभायाः कान्ते:, संदोहं समुच्चयं, नाट्यस्य नानाविधानि अंगानि ( ९४२-९४५ आर्यासु उक्तानि) उद्दिश्य संदोहं इत्युक्तिः, न आपुः इति मन्ये । भरतपुत्रशिष्याभ्योऽप्ये९४६ क्षितिपतिजनुषा (गो. का) क्षि नघुषा (५) । वाये (प) [ लेखकभ्रमात् पाठः]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com