________________
कुटनीमतम् ।
प्रकृतिविशेषावस्थाप्रतिपादकवेषरचनसामग्र्या ।
अनुकरणमभ्यतीतं सिद्धिद्वयसंपदा धाराम् ॥ ९४५ ॥ गातृभिः गायनैः गायकैः, साधु सुष्ठुतया दोषरहितत्वेन, गीतं गानप्रयोगः कृतः, कीदृशं तत्प्रकृतं गीतं इत्याह नियमितेत्यादि । नियमितं मानेन स्थापितं, दीपनं नाम त्रिस्थानशोभित्वं वर्धमानस्वरत्वं च, यद्वा अलंकारादिभिः शोभापादनं, तथा गमनं स्वराणां आरोहावरोहादिभिः प्रवर्तनं यत्र तादृशम्; अनेन गातार: ग्रहमोक्षविचक्षणा इति सूचितम् । तथा द्रुतमध्यविलम्बिताख्या: ये त्रिविधाः चञ्चत्पुटादितालानां लयाः तैः युक्तं, लयश्च-" तालान्तरालवर्ती यः स कालो लय उच्यते ।" इत्युक्तः, अनेन गातारो न वितालाः अपि तु तालज्ञाः इति सूचितम् । तथा रसवत् आनंदोत्पादकगुणयुक्तम् ; अनेन गातारो न विरसाः इति सूचितम् । स्वरोपपन्नं तत्तद्रागेषु विहितैः स्वरैः उपपन्नं शुद्धं स्वरक्षत्यादिहीनं इति यावत् ; अनेन ते न अपस्वराः इति सूचितम् ; यद्वा भरतेन शंगारादौ स्वरविशेषा उक्ता: तै उपपन्नं युक्तं, ते च यथा-"हास्यशृंगारयोः स्वरितोदात्तत्वं, वीररौद्राद्भुतेषूदात्तस्वरितं, करुणबीभत्सभयानकेष्वनुदात्तस्वरितमुत्पादयेत् ।" इति ( सा. द. टीकायां रामचरणतर्कवागीशेनोद्धृतम् । ) यद्वा-"हास्यशृंगारयोः कार्यों स्वरौ मध्यमपंचमौ । षड्जर्षभौ तु कर्तव्यौ वीररौद्राद्भुतेष्वथ ॥ निषादवान् सगांधारः करुणे संविधीयते । धैवतश्चापि कर्तव्यो बीभत्से सभयानके ॥” ( नाट्यशास्ने १७१००-१०१) इति । तथा कृतसाम्यं रागविशेषेषु लक्ष्यलक्षणयोः विरोधे स्वरान्तराणां गुंफेन संपादिताविरोधम् ; अनेन गातारः चतुरा इति सूचितम् ॥ ९४४॥ क्रमात् अवस्थानुकृतिरूपं नाटयमपि प्रशंसति प्रकृतीति । प्रकृतिविशेषाः स्वभावविशेषाः यथा राजविदूषकादीनां नायिकाप्रतिनायिकादीनां च भिन्नाः, अवस्थाः यथा कामकृताः अभिलाषादयः दश; तासां प्रतिपादकानि दर्शनमात्रेण गमकानि प्रत्यायकानि, यानि वेषरचनानि नेपथ्यनिर्वर्तनानि, "भूमिका रचनायां स्याद्वेशान्तरपरिग्रहे ।" इति मेदिन्युक्तेः, वेषरचनयोः उभयोः ग्रहणं पुष्पमालावत् वेषस्य उत्कर्षप्रतीत्यर्थ, यद्वा 'वेषवचनसामग्र्या' इति पाठ: भवेत्, तेषां सामग्र्या सामस्त्येन नटत्वबुद्धेः आच्छादिकया सामग्र्या इति भावः, हेतौ तृतीया;
९४५ अनुकरणे त्यभिनीत्य(तं?) सिद्धिद्वयसंपदा(दा?) मनो दूरम् (१) अनुकरणे त्यभिनीता सिद्धिद्वयसम्पदा मनो दूरम् (स्तं) अभिनयकरणे नीता सिद्धिद्वयसंपदा चारम् (गो २. का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com