________________
कुट्टनीमतम् ।
I
सुश्लिष्टसन्धिबन्धं सत्पात्रसुवर्णयोजितं सुतराम् । निपुणपरीक्षकदृष्टं राजति रत्नावलीरत्नम् ॥ ९४७ ॥ एवंविधगुणकथनप्रसङ्गिनि विभावितात्मनृपतनये | पठति स्मार्यामन्यः स्मृतिविषयमुपागतां प्रसङ्गेन ॥ ९४८ ॥ तासां नाट्यप्रयोगे उत्कर्षः इति व्यतिरेकः अनया द्योतितः ॥ ९४६ ॥ प्रकृतप्रयोगभित्तिभूतायाः चक्रवर्तिश्रीहर्षप्रणीतायाः रत्नावलीनाटिकायाः प्रशंसनेन स्वोक्तिमुपसंहरति सुष्टेिति । रत्नावलीरत्नं रत्नावल्याख्या नाटिका एव रत्नं मणिः, कीदृशं तत् इति सुलिष्टेत्यादिभिः त्रिभिः श्लिष्टविशेषणैः विशिनष्टि । सुलिष्टः सुघटितः संधीनां मुखादिनाट्यांगविशेषाणां बंधः योजनं यत्र तत्, तथा च नाटके मुखप्रतिमुख- गर्भ-विमर्श ( 'अवमर्श' ) - निर्वहण ( ' संहृति ' ) - नाम्न्यः वस्तुप्रपंचिका: चतुःषष्टयं गात्मिकाः पंच संघयः वर्तन्ते, संधिसामान्यलक्षणं तु - " अन्तरैकार्थसंबंध: सन्धिरेकान्वये सति । ” ( १।२३ ) इति दशरूपके, तत्र नाटकबीजस्य मुखसंधौ उत्पत्तिः, प्रतिमुखे दृष्टनष्टमिव तस्योद्घाटनं, गर्भे उद्भेदः, अवमर्शे गर्भनिर्भेदः, निर्वहणे च तस्य समानयनम् । विशेषस्तु दशरूपकादौ द्रष्टव्यः । रत्नावल्यांच प्रथमांके मुखसंधिः, द्वितीयांके प्रतिमुखसंधिः, तृतीयांके गर्भसंधिः, चतुर्थे च विमर्श निर्वहणसंधिद्वयं, इति ज्ञेयं, यथा च इमा: पंच सांगाः रत्नावल्यां तथा विविच्य दर्शितं दशरूपके प्रभाख्यरत्नावलीटीकायां च इति तत्र अवलोकनीयम् । रत्नपक्षे सुश्लिष्टः घनः संधीनां त्रसरेणुसंयोगानां बंधः घटितत्वं यस्य तत् । तथा शोभनानि पात्राणि अनुकार्याणि उदयनवासवदत्तारत्नावलीयौगंधरायणादीनि, सुवर्णानि शोभनानि अक्षराणि पदवाक्यगतानि च तैः योजितं संपादितं; रत्नपक्षे सत्पात्रेण उत्तमकारुकेण सुवर्णेन हेम्ना योजितं संघटितम् । तथा निपुणैः पदवाक्यरसादिविद्भिः इति भावः, परीक्षकैः सदसद्वयक्तिहेतुभिः सहृदयैः, दृष्टं पठितम् ; रत्नपक्षे निपुणैः चतुरैः परीक्षकैः रत्नानां गुणदोषनिरीक्षकैः रत्नशास्त्रविद्भिः इत्यर्थः, दृष्टं परीक्षितं निर्दोषत्वेन अवधारितम् ; ईदृशं सत्, सुतरां अतिशयेन, राजति शोभ. मानं वर्तते । श्लिष्टरूपकं अलंकारः । अनया रत्नावल्याः रसालंकारौचित्यादिगुणैः गरिष्ठ प्रबन्धत्वं उक्त, उत्तमकनकभूषणघटितो तमरत्नवत् तस्याः अनर्घत्वं च सूचितम् ॥ ९४७ ॥ विषयान्तरं प्रस्तौति एवमिति । एवंविधानां पूर्वोक्तानां गुणानां कथने प्रसंग: व्यापारः तद्वति प्रसंगिनि, विभावितात्मा तत्र ९४७ आश्विष्ट (गो. का) । सर्वत्र सुवर्ण... सुभगम् ( गो २ ) ९४८ कथनप्रसरद्विरि विभा ( प ) [ मात्राधिक्यमत्र पाठे ] सरगिरि भाविता' (स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
३७९:
www.umaragyanbhandar.com