________________
३६८
दामोदरगुप्तविरचितं
एवमभिधाय चित्रैश्चरणन्यासैः परिक्रमं कृत्वा । नैष्क्रामिक्या ध्रुवया विनिर्ययौ नायकोऽपि सह सर्वैः ॥ ९२८ ॥
66
,
ते
मुखमेव पद्मं कमलं, रूपकं, एकमपि सत् अन्यान् सजातीयान्, पद्मान् कमलानि, “ पद्मोऽस्त्री पद्मनालेऽब्जे व्यूहसंख्यान्तरे निधौ । पद्मके नागभेदे ना, पद्मा भाङ्गश्रियोः स्त्रियाम् ॥” इति विश्वलोचनः, विच्छायान् अस्तमितशोभान् कान्तिहीनान्, " छाया सूर्यप्रिया कान्तिः प्रतिबिंबमनातपः । " इत्यमरः, विदधाति करोति । उपमालंकारः, तस्य मुष्णाति सौभाग्यं तस्य कांतिं विलुंपति... • शब्दाः सादृश्यसूचकाः ।” ( काव्यादर्शे २।६३-६५ ) इत्युक्तेः । अनेन तस्याः मुखस्य व्यतिरेकः ध्वनितः । अपि च संध्याकाले कमलानां म्लानत्वं प्रकृतिजं तथापि तत्कारणत्वेन देवीमुखपद्मस्य कल्पितत्वात् संबंधातिशयोक्तिरलंकारश्च । अल्योऽपि भ्रमराश्र, शनैः शनैः वीप्सायां ( आधिक्ये) द्वित्वं अतिमंदं इत्यर्थः तेषां कमलांनां, उदरेषु मध्यभागेषु, लीयंअदृश्या भवंति कमलानां मुकुलीभवनेन, तदुत्प्रेक्षते, लजिता इव, कस्मात् इत्याकांक्षायां तु रत्नावल्यनुसरणे तत्र उक्तं " श्रुत्वा ते परिवारवारवनितागीतानि ” (१।२५ ) इति पूरणीयम् । इयं रत्नावलिस्थायाः उदयनोक्तेः अनुवादः । सा च - " देवि, त्वन्मुखपंकजेन शशिनः शोभातिरस्कारिणा पश्याब्जानि विनिर्जितानि सहसा गच्छन्ति विच्छायताम् । श्रुत्वा ते परिवारवारवनितागीतानि भृंगांगना लीयंते मुकुलान्तरेषु शनकैः संजातलज्जा इव || ” ( १।२५ ) इति ॥ अन्येऽपि तिरस्कृताः पराजिता वा विच्छाया भवंति, स्वमुखानि दर्शयितुं अशक्ता: क्वापि लीनाश्च भवंति इति समासोक्तिः ॥ अत्रेदमवधेयं यत् मूले भ्रमराणां लयने हेतुत्वेन लजा उत्प्रेक्षिता, परंतु लज्जाकारणं नोक्तं, यथा रत्नावल्यां उक्तम् । तत्रेयं अभिसंधि:-" किं पद्ममन्तर्भ्रान्तालि किं ते लोलेक्षणं मुखम् । ” ( काव्यादर्शे २।२६ ) इति संशयोपमोदाहरणवत् देव्या: सेक्षणं मुखं अत्र पद्मत्वेन अभिप्रेतं, तत्र पूर्वार्धेन मुखेन केवलं पद्मानां तिरस्कारं उक्त्वा तत्रत्यलोलेक्षणैः पद्ममध्यमकरंदलोलुपानां अलीनां पराजयः उत्तरार्धे प्रकटीकृत इति सर्व समंजसम् ॥ ९२७ ॥ प्रकृतं रत्नावलीनाटिकायाः प्रथमांकस्य नाट्यं उपसंहरति एवमिति । एवं पूर्वोक्तप्रकारेण अभिधाय संध्यासमयं वर्णयित्वा चित्रैः चरणन्यासैः परिक्रम्य द्विपदिकाद्यचितचारीभिः रंगभूमौ भ्रमणं कृत्वा, सर्वैः देवीविदूषकादिभिः पात्रैः सह, नायकोऽपि राजा उदयनोऽपि, नैष्काभिक्या ध्रुवया तस्यां नेपथ्ये गीयमानायां इत्यर्थः तथा चोक्तं ९२८ निष्क्रामन्पादुकया विनिं ( का ) [ अशुद्धः पाठः ] । सह सचिवैः (प. स्तं ) [ न्यूनार्थकः पाठः ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com